वाचस्पत्यम्
प्रियव्रत || त्रि० प्रियं व्रतमस्य । १ व्रतप्रिये स्वायम्भुवमनोः २ पुत्रभेदे पु० हरिवं० २ अ० ।
शब्दकल्पद्रुमः
प्रियव्रतः || पुं, (प्रियं व्रतं यस्य ।)
स्वायम्भुवमनु- पुत्त्रः । यथा, —
“प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु । द्वौ पुत्त्रौ सुमहावीर्य्यौ धर्म्मज्ञौ कथितौ तव ॥” इत्यग्निपुराणम् ॥ (प्रियाणि व्रतानि यस्येति विग्रहे व्रतप्रिये, त्रि । यथा, ऋग्वेदे । १० । १५० । ३ । “अग्ने देवानावह नः प्रियव्रतान् मृळीकाय प्रियव्रतान् ॥”)