वाचस्पत्यम्
प्रियसख || पु० कर्म० ६ त० । वा, अच्समा० । १ हृद्ये सख्यौ २ प्रियस्य सख्यौ च । स्त्रियां ङीष् । ३ खदिरे शब्दच० ।
शब्दकल्पद्रुमः
प्रियसखः || पुं, (प्रियः सखा च हितकारित्वात् । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
खदिरः । इति शब्दचन्द्रिका ॥ प्रियश्चासौ सखा चेति । (प्रियबन्धुः । यथा, मेघदूते । १२ । “आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम् ॥”)
प्रियस्य सखा इति च । इति व्याकरणम् ॥