संस्कृत-शब्दकोशः

प्रियार्ह प्रियाला

प्रियाल

वाचस्पत्यम्

प्रियाल ||‍ पु० प्रियाय अलति पर्य्याप्नोति अण्—अच् । प्रिय- साले (पियासाल) २ द्राक्षायां स्त्री राजनि० । भावप्र- पियाल इत्येन पाठः “प्रियालस्तु खरस्कन्धश्चारो ब- हुलवल्कलः । राजादनस्ताप्रसेष्टः सन्नकर्द्रूर्द्ध्वतष्पटः । चारः पित्तकफास्रघ्नस्तत् फलं सधुरं गुरु । खग्धं सरं मरुत्पित्तदाहज्वरतृषापहम् । पियालमज्जा मधुरो वृष्यः पित्तानिलापहः । हृद्योऽतिदुर्जरः स्निग्धो वि- ष्टम्भी चामवर्द्धनः” भावप्र० ।


शब्दकल्पद्रुमः

प्रियालः || पुं, (प्रियाय हिताय अलति पर्य्याप्नो- तीति । अल + अच् ।)
वृक्षभेदः । पियाल इति भाषा । अस्य बीजं चिरञ्जीति प्रसिद्धम् । तत्पर्य्यायः । चारः २ अखट्टः ३ खरस्कन्धः ४ ललनः ५ चारकः ६ बहुवल्कः ७ सन्नद्रुः ८ तापसप्रियः ९ स्नेहबीजः १० उपवटः ११ मक्ष- बीर्य्यः १२ । इति राजनिर्घण्टः ॥ पियालः १३ । इत्यमरः । २ । ४ । ३५ ॥ बहुलवल्कलः १४ राजदनम् १५ तापसेष्टः १६ सन्नकद्रुः १७ धनुःपटः १८ । अस्य गुणः । पित्तकफास्रनाशित्वम् ॥ तत्फल- गुणाः । मधुरत्वम् । गुरुत्वम् । स्निग्धत्वम् । सर- त्वम् । मरुत्पित्तदाहज्वरतृषापहत्वञ्च । तन्मज्ज- गुणाः । मधुरत्वम् । वृष्यत्वम् । पित्तानिलाप- हत्वम् । हृद्यत्वम् । दुर्ज्जरत्वम् । स्निग्धत्वम् । विष्टम्भित्वम् । आमवर्द्धनत्वञ्च । इति भाव- प्रकाशः ॥ अपि च । “चारस्य च फलं पक्वं वृष्यं गौल्याम्लकं गुरु । तद्बीजं मधुरं वृष्यं पित्तदाहार्त्तिनाशनम् ॥” इति राजनिर्घण्टः ॥



Correction: