संस्कृत-शब्दकोशः

प्रीणस प्रीति

प्रीत

वाचस्पत्यम्

प्रीत ||‍ त्रि० प्री—कर्त्तरि क्त । हृष्टे अमरः ।


शब्दकल्पद्रुमः

प्रीतः || त्रि (प्रीञ् प्रीणने + क्तः ।)
प्रीतियुक्तः । तत्पर्य्यायः । हृष्टः २ मत्तः ३ तृप्तः ४ प्रह्लन्नः ५ प्रमुदितः ६ । इत्यमरः । ३ । १ । १०३ ॥ हृषितः ७ । (यथा, महाभारते । ४ । ४० । २ । “प्रीतोऽस्मि पुरुषव्याघ्र ! न भयं विद्यते तव । सर्व्वांस्तुदामि ते शत्रून् रणे रणविशारद ! ॥”)
क्ली, नर्म्म । इति मेदिनी । ते, ३३ ॥



Correction: