संस्कृत-शब्दकोशः

प्रीत प्रीतिजुष

प्रीति

वाचस्पत्यम्

प्रीति ||‍ स्त्री प्री—भावे क्तिच् । १ हर्षे २ आनोदे ३ तृप्तौ च । विष्कुम्भादियोगेषु ४ द्वितीययोगे । ५ कामस्य पत्नीभेदे रत्याः सपत्न्याञ्च “वेश्याऽभङ्गवती नाम विभूतिद्वादशी व्रतम् । समाप्य माममासस्य द्वादश्यां लवणाचलम् । निवेदयन्ती गुरुवे शय्याञ्चोपस्करान्विताम् । अलङ्कृत्य हृषीकेशं सौवर्णामरपादपम् । स चानङ्गवतो वेश्या कामदेवस्य साम्प्रतम् । पत्नी, सपत्नी संजाता रन्याः प्रीतिरिति श्रुता” मात्स्ये ८२ अ० ।


शब्दकल्पद्रुमः

प्रीतिः || स्त्री (प्रीञ् तर्पणे + भावे क्तिन् ।)
तृप्तिः । (यथा, रामायणे । १ । ६८ । १२ । “प्रतिज्ञां मम राजेन्द्र ! निर्वर्त्तयितुमर्हसि । पुत्त्रयोरुभयोरेव प्रीतिं त्वसुपलप्स्यसे ॥”)
तत्पर्य्यायः । मुत् २ प्रमदः ३ हर्षः ४ प्रमोदः ५ आमोदः ६ सम्मदः ७ आनन्दथुः ८ आनन्दः ९ शर्म्म १० सातम् ११ सुखम् १२ । इत्यमरः । १ । ४ । २४ ॥ केचिचु । मुदादिसप्तकं प्रीतौ । आनन्दथ्वादिपञ्चकं सुखे इत्याहुः इति भरतः ॥ इष्टदर्शनजन्यं सुखम् । इति मोक्षधर्म्मे नील- कण्ठः ॥ कामपत्नी । इति मेदिनी । ते, ३४ ॥ सा पुरा अनङ्गवती वेश्या आसीत् विभूतिद्बादशी- व्रतं कृत्वा रत्याः सपत्नी जाता । यथा, —
“वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम् । समाप्य माघमासस्य द्वादश्यां लवणाचलम् ॥ निवेदयन्ती गुरवे शय्याञ्चोपस्करान्विताम् । अलंकृत्य हृषीकेशं सौवर्णामरपादपम् ॥ सा चानङ्गवती वेश्या कामदेवस्य साम्प्रतम् । पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता ॥” इति मात्स्ये ८२ अध्यायः ॥ विष्कम्भादिसप्तविंशतियोगान्तर्गत द्बितीययोगः । तत्र जातफलम् । “प्रसूतिकाले यदि प्रीतियोगो नरो ह्यरोगः सुखवान् विनोदी । रक्तानुरक्तो विदुषां प्रपन्नः संप्रार्थितो यच्छति वित्तमेव ॥” इति कोष्ठीप्रदीपः ॥ प्रेम । इति मेदिनी । ते, ३४ ॥



Correction: