संस्कृत-शब्दकोशः

प्रीतिद प्रीतिदाय

प्रीतिदत्त

वाचस्पत्यम्

प्रीतिदत्त ||‍ त्रि० ३ त० । १ प्रीत्या दत्ते २ स्त्रीधनभेदे न० यथाह मिता० कात्यायनः “प्रीत्या दत्तं तु यत्किञ्चित् श्वश्वा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते” । भर्तृप्रीतदत्तस्थावरे तु विशेषः दाय० उक्तो यथा “मत्त्रा प्रीतेन यदृत्तं स्त्रियै तस्मिन् मृते तत् । सा यथा काम- मश्रीयात् दद्याद्वा स्थावरादृते” ।


शब्दकल्पद्रुमः

प्रीतिदत्तं || क्ली (प्रीत्या दत्तमिति ।)
प्रीत्या दत्त- वस्तु । यथा, मिताक्षरायाम् । “प्रीत्या दत्तन्तु यत् किञ्चित् श्वश्र्वा वा श्वशुरेण वा । पादवन्दनिकञ्चैव प्रीतिदत्तं तदुच्यते ॥” भावे क्तप्रत्यये प्रीतिदानञ्च ॥



Correction: