वाचस्पत्यम्
प्रीतिभोज्य || पु० प्रीत्या भोग्यम् । प्रीव्यैव भोज्ये कन्नादौ “अस्रानि प्रीतिमोज्यानि श्वापद्भोज्यानि वा पुनः । न च संप्रीयसे राजन् । म चैवापद्गतावयम्” भा० उ० ९० अ० । “संप्रीतिभोज्याज्यन्नानि” इति मुद्रितपुस्तके पाठः ।
शब्दकल्पद्रुमः
प्रीतिभोज्यं || त्रि (प्रीत्या भोज्यम् ।)
प्रीत्या भक्षणीयमन्नादि । यथा, —
“अन्नानि प्रीतिभोज्यानि आपद्भोज्यानि वा पुनः । न च संप्रीयसे राजन्न चैवापद्गता वयम् ॥” इति महाभारते । ५ । ९१ । २५ ॥