वाचस्पत्यम्
प्रुष || भस्मीकरणे भ्वा० पर० सक० सेट् । प्रोषति अप्रोषीत् पुप्रोष । उदित् क्त्वा वेट् । प्रुषित्वा पुष्ट्वा प्रुष्टः ।
वाचस्पत्यम्
प्रुष || सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट् । प्रु- ष्णाति अप्रोषीत् पुष्रोष ।
शब्दकल्पद्रुमः
प्रुष || उ दहि । इति कविकल्पद्रुमः । (भ्वा०-पर०- सक०-सेट् । उदित्त्वात् क्त्वावेट् ।)
उ, प्रोषित्वा प्रुष्ट्वा । दहि भस्मीकरणे । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
प्रुष || ग सेके । पूर्त्तौ । स्नेहे । इति कविकल्प- द्रुमः ॥ (क्र्या०-पर०-सेके पूर्त्तौ च सक०-स्नेहे अक०-सेट् ।)
ग, प्रुष्णाति पुप्रोष । सेकस्थाने मोचनमिति धातुप्रदीपभट्टमल्लौ । इति दुर्गा- दासः ॥