संस्कृत-शब्दकोशः

प्रेक्षणकूट प्रेक्षागार

प्रेक्षा

वाचस्पत्यम्

प्रेक्षा ||‍ स्त्री प्र + ईक्ष—भावे अङ् । १ विषयशुभाशुभपर्य्यालोच- नायां २ वृद्धिपूर्वककर्मकरणे ततः प्रेक्षादि० चतुरर्थ्याम् इनि । प्रेक्षिन् आलोचनानिर्वृत्तादौ । अस्विन्शब्दे परे घोषादि० पूर्वषदमुदात्तम ।


शब्दकल्पद्रुमः

प्रेक्षा || स्त्री (प्रकर्षेण ईक्षते ययेति । प्र + ईक्ष + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः । टाप् ।)
प्रज्ञा । (यथा, महाभारते । ३ । १३६ । ७ । “सा तस्मै सर्व्वमाचष्ट यवक्रीभाषितं शुभा । प्रत्युक्तञ्च यवक्रीतं प्रेक्षापूर्ब्बं तथात्मना ॥”)
नृत्येक्षणम् । इत्यमरः । ३ । ३ । २२३ ॥ (यथा, मनौ । ९ । ८४ । “प्रतिषिद्धापि चेद्या तु मद्यमभ्युदयेष्वपि । प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥” प्र + ईक्ष् + भावे अः । टाप् ।)
ईक्षणम् । इति भरतः ॥ (यथा, भागवते । ३ । १६ । ७ । “यत्सेवया चरणपद्मपवित्ररेणुं सद्यःक्षताखिलमलं प्रतिलब्धशीलम् । न श्रीर्विरक्तमपि मां विजहाति यस्याः प्रेक्षालवार्थमितरे नियमान् वहन्ति ॥”)
शाखा । इति शब्दरत्नावली ॥ (शोभा । यथा, भागवते । ३ । ८ । २५ । “प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याब्भ्रनीवेरुरुरुक्ममूर्द्ध्नः । रत्नोदधारौषधिसौमनस्य- वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः ॥” “हरितोपलाद्रेर्मरकतशिलामयपर्व्वतस्य प्रेक्षां शोभां क्षिपन्तं स्वलावण्यातिशयेन तिरस्कुर्व्व- न्तम् ॥” इति तट्टीकायां स्वामी ॥)



Correction: