वाचस्पत्यम्
प्रेत || त्रि० प्र—इ—क्त । १ मृते अमरः । २ नरकस्थे जीवभेदे ३ प्रिशाक्षभेदे आतिवाहिकदेहोत्तरं ४ जायमानदेहभेद्र- युते और्द्ध्वदेहिकक्रियाऽभावे तद्रूपप्राप्तिकथा पाद्मोत्त० ख० १६ अ० यथा “ततो बहुतिथे काले स राजा पञ्चता- ङ्गतः । वैदिकेन विधानेन न लेभे चौर्द्ध्वदोहकम् । विष्णु- प्रद्वेषमात्रेण युगानां सप्तविंशतिम् । भुक्त्वा च यातनां थामीं निस्तीर्णनरको नृपः । समया गिरिराजन्तु पि- शाचोऽभूत्तदा महान्” । तस्य रूपं यथा “देवद्युतिर- धीयानः शुश्राव करुणस्वनम् । सभ्रागत्य ततस्तत्र त” पिशाचं ददर्श सः । विकरालमुखं दीनं पिशङ्गनयनं भृशम् । ऊर्द्ध्वमूर्द्ध्वजकृष्णाङ्गं यमदूतमिवापरम् । चल- जिह्वञ्च लम्बोष्ठं दीर्घजङ्घसिराकुलम् । दीर्घाङ्घ्रि- शुष्कतुण्डञ्च गर्त्ताक्षं शुष्कपञ्चरम्” । और्द्ध्वदेहिककरणेऽपि केषाञ्चित् कर्मविशेषेण प्रेतत्वप्रा- प्तिस्तत्रोक्ता यथा “हविर्जुह्वति नाग्नौ ये गोविन्द” वार्चयन्ति ये । लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्च ये । सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम् । आ- र्स्तेभ्यो न प्रयच्छन्ति सर्वेषु कृतदारकाः । ब्रह्मस्वञ्च स्त्रीधनानि लोभादेव हरन्ति वे । बलेन छद्मना वापि धूर्त्ताश्च परवञ्चकाः । नास्तिकाः कुहका- श्चौरा ये चान्ये बकवृत्तयः । बालवृद्धातुरस्त्रीषु नि- र्दयाः सत्यवर्जिताः । अग्निदा गरदा ये च ये चान्ये कूटमाक्षिणः । अगम्यागामिनः सर्वे ये चान्ये ग्राम- याजिनः । व्याधाचरणसम्पन्ना वर्णादिधर्मवर्जिताः । ये चोपदेवदनुजरक्षीयक्षादिसेविनः । सर्वदा मादकद्रव्य- पानमत्ता हरिद्विषः । देवतोद्दिष्टपतितनृपश्राद्धान्नभो- जिनः । असत्कर्मरता नित्यं सर्वपातकपापिनः । पाषण्दधर्माचरणाः पुरोधोवृत्तिजीविनः । पितृमातृ- स्नषापत्यस्वदारत्यागिनश्च ये । ये कदर्य्याश्च लुब्धाश्च नास्तिका धर्मदूषकाः । त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतम् । गवां भूमेश्च हर्त्तारो ये चान्ये रत्न- दूषकाः । महाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये । पर द्रोहरता ये च तथा ये प्राणिहिंसकाः । परापवा- दिनः पापा देवतागुरुनिन्दकाः । कुप्रतिग्राहिणः सर्वे सम्भवन्ति पुनःपुनः । प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयो- निषु । न तेषां सुखलेशोऽस्ति इह लोके परत्र च” । पाद्मोत्तरखण्डे १८ अ० । पञ्चप्रेतोपख्यानं तत्रैव यथा “ब्राह्मण उवाच प्रेतानां नाम जातीनां युष्माकं सम्भवः कथम् । किं तत् कारणमुद्दिश्य यूयमीदृशनामसाः” । प्रेता उचुः “अहं स्त्राद् सदा भुक्त्वा दद्यां पर्युषितं सदा । एतत्कारणमुद्दिश्य नाम पर्य्युषितं १ मम । सूचिता बहवोऽनेन विप्राद्या ह्यन्नकाङ्क्षिणः । एतत्- कारणमुद्दिश्य सूचीमुख २ मिमं विदुः । शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै । पश्चाद्भुङ्क्ते द्विजः शिष्टमेष शीघ्रक ३ उच्यते । गृहोपरि सदा भुङ्क्ते स्वाद् द्विजभयेन हि । द्विजाय कुत्सितं दत्त्वा एष रोहक ४ उच्यते । मौनेनापि स्थिरो नित्यं याचितो विलिखन्महीम् । अस्माकमपि पापिष्ठो लेखको ५ नाम एष वै । मेढ्रेण लेखको याति रोहकः पार्श्वतःशिराः । शीघ्रकः पङ्गुतां प्राप्तः सूची सूचीमुखोऽभवत्” । प्रेताः हारस्तत्रोक्तो यथा “द्विज उवाच “ये जीवा भुवि तिष्ठन्ति सर्वे आहारमूलकाः । युष्माकमपि चाहारं श्रोतु- मिच्छामि तत्त्वतः” प्रेता ऊचुः “शृणु आहारमस्माकं सर्वसत्त्वविगर्हितम् । श्लेष्ममूत्रपुरीषेण योषितान्तु मलेन च । गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै । स्त्रीभिर्जग्धानि जीर्णानि संकीर्णापहतानि च । मले- नातिजुगुप्सानि प्रेता भुञ्जन्ति तत्र वै । भयलज्जा- बिहीनानि पतितैः सेवितानि च । अन्योन्यदस्यु युक्तानि प्रेता भुञ्जन्ति तत्र वै । कलहान्वितशोकानि त्यक्तशो- भानि मण्डनैः । सवर्चस्कानि भाण्डानि प्रेता भुञ्जन्ति तत्र वै । बलिमन्त्रविहीनानि द्विजादृष्टानि यानि तु । नियमव्रतहीनानि प्रेता भुञ्जन्ति तत्र वै । गुरवो नैव पूज्यन्ते स्त्रीजितानि मलानि च । सक्रोधान्यपवित्राणि प्रेता भुञ्जन्ति तत्र वै । भुञ्जन्ति भिन्नभाण्डेषु मर्य्यादा- रहितेषु च । अन्योन्योच्छिष्टयुक्तेषु तत्र प्रेतास्तु भु- ञ्जते । सकेशमाक्षिकोच्छिष्टं पूति पर्युषितं तथा । सक्रो- धञ्च सशोकञ्च तच्च प्रेतेषु भोजनम् । सनग्नं भोजनं यच्च नोत्तरीयं पदासनम् । सोष्णीषं सासुरीकक्षं तच्च प्रेतेषु भोजनम् । अर्द्धग्रासं महाग्रासं सोत्क्षिप्तं पतितं तथा । दुर्भुक्तं गोष्ठिकञ्चैव तच्च प्रेतेषु भोजनम् । सौतिकं गृतकञ्चैव राजसं कलुषीकृतम् । निर्दीपं कृमि- वच्चाग्रे यद्भुक्तं प्रैतिकन्तु तत् । एतत्ते कथित्त सर्वं यत् प्रेतेष्येव भोजनम् । निर्वाणाः प्रेतजात्या बै कृच्छामस्थां द्विजोत्तम” । प्रेतत्वाभावकारणं यथा न षेतो जायते येन येन चैवेह जायते । एतत्सर्वं समा- सेन प्रकूहि वदतां वर!” ब्राह्मण उवाच “एकरात्रं त्रिरात्रं वा कृच्छ्रं चान्द्रायणादिकम् । व्रतेष्वप्यु षितो यख क ऐतो जायते नरः । मिष्टान्नपानदाताथ सततं श्रद्धयान्वितः । देवपूजापरो नित्यं न ष्रेतो जायते नरः । त्रिरग्निरेकपञ्चाग्निर्निरग्निर्वाप्युपासकः । सर्वभूतद- यापन्नो न प्रेतो जायते नरः । तुल्यमानापमानश्च तुल्यः काञ्चनलोष्टयोः । तुल्यः शत्रौ च मित्रे च न प्रेतो जायते नरः । देवतातिथिपूजासु गुरुजातिषु नित्यशः । वेदशास्त्ररतो नित्यं न प्रेतो जायते नरः । जितक्रोधो मदैश्वर्य्यतृष्णासङ्गविवर्जितः । क्षमाऽक्रोध सुशीलश्च न प्रेतो जायते नरः । देवतातिथिपूजास्तु पर्वतांश्च नदीस्तथा । पश्येद्देवालयांश्चैव न प्रेतो जायते नरः” । प्रेतत्वकारणं यथा “शूद्रान्नं यो द्विजो भुङ्क्ते यः क्रामति द्विजोत्तमम् । वृत्तिहा द्विजदेवेषु स प्रेतो जायते नरः । मातरं पितरं वृद्धं ज्ञातिं साधुजनं तथा । लोभात् त्यजति यः स्निग्धं स प्रेतो जायते नरः । अ- याज्ययाजकश्चैव याज्यञ्च परिवर्जयेत् । शूद्रानुग्रहकर्त्ता च स प्रेतो जायते नरः । कुज्योतिषी कुविद्यस्तु कुज- नेषु कुदेशकः । शूद्रसेवाकरो राज्ञां स प्रेतो जायते नरः । सेवनायापद्रुतो यः सेवकस्त्वपरिग्रहः । तावु- भावपि जायेते प्रेतौ कालान्न किंप्रदौ । द्विजानुम- न्त्रितो भुङ्क्ते शूद्रान्नं वा द्विजस्य तु । शूद्रेणैव द्विजः पेतो निरयानुपगच्छति । गीतवाद्यरतो नित्यं मद्यप- स्त्रीबिषेषणात् । द्यूतमांसप्रियो यस्तु स प्रेतो जायते नरः । वृथारेता वृथामांसो वृथावादो वृथामतिः । निन्दको द्विजदेवानां स प्रेतो जायते नरः । वृद्धं बालं गुरुं विप्रं योऽवमन्य भुनक्ति वै । कन्यां ददाति शु- ल्केन स प्रेतो जायते नरः । न्यासापहर्त्ता मित्रध्रुक परपाकरतस्तथा । विश्रम्भघाती कूटश्च स प्रेतो जा- यते नरः । निर्दोषान् सुहृदो नारीस्त्यजेत् कालान्न पाति यः । धनमीहेत यस्तेषां संप्रेतो जायते नरः । हस्त्यश्वरथयानानि मृतशय्यासनादि यः । कृष्णाजि- नञ्च गृह्णानि अनापत्सुगतो द्विजः । तथोभयमुखीं कालं सशैलां मेदिनीं द्विजः । कुरुक्षेत्रस्य यद्दानं चा- ण्डालात् पतितात्तथा । मासिकेऽपि नवश्राद्धे भुञ्जन् प्रेतान्नभुङ्मतः । ब्रह्महा गोबधी स्तेयी सुरापो गुरु- तल्पगः । भूमिकन्यापहर्त्ता यः स प्रेतो जायते नरः । नानासङ्करकृन्नित्यं वर्णसङ्करकृत्तथा । योनिसङ्करकृ- च्चापि स प्रेतो जायते नरः । विक्रीणाति विषं शङ्खं तिलानां लवणस्य तु । गवा कशरिणां मोहात् विक्र- यात् प्रेततां व्रजेत् । कूटमाप्येन तौल्येन क्रयं क्री- णाति विक्रयात् । मद्यतक्रपयोदध्नां स प्रेतो जायते नरः । स्त्रीरक्तो मद्यपाने तु मृगयामनुधावति । नि- त्यनैमित्तिकेऽदाता स प्रेतो जायते नरः” अग्निपु० । मनुष्याणाञ्च दाहादिक्रिययाऽतिवाहिकदेहानन्तरं प्रेत- देहो भवति यथाह विष्णुधर्मोत्तरे ||“तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् । षातिवाहिकसंज्ञोऽसौ देहो भवति भार्गव! । केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित् । प्रेतपिण्डै- स्ततो दत्तैर्देहमाप्नोति भार्गव! । भोगदेहमिति प्रोक्तं क्रमादेव न संशयः । प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् । श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते । तत्रास्य यातना घोराः शीतवातातपोद्भवाः । ततः सपिण्डीकरणे बान्धवैः स कृते नरः । पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते । ततः स नरके याति स्वर्गे वा स्वेन कर्मणा” शु० त० । ५ प्राप्तपितृलोके “अत ऊर्द्ध्वं संवत्सरे संवत्सरे प्रेतायान्नं दद्यात्” गोभिलः “प्रेतलोकं परित्यज्य आगता ये महालये” ति० त० ।
शब्दकल्पद्रुमः
प्रेतः || पुं, (प्र + इ गतौ + क्तः ।)
नरकस्थप्राणी । इत्यमरः । ३ । ३ । ५९ ॥ भूतभेदः । मृते, त्रि । इति मेदिनी । ते, ३७ ॥ (यथा, मनुः । २ । २४७ । “आचार्य्ये तु खलु प्रेते गुरुपुत्त्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुवत् वृत्तिमाचरेत् ॥”)
वैदिकविधानेन और्द्धदेहिकाभावात् विष्णुद्बेषाच्च बहुनरकभोगान्ते प्रेतशरीरं भवति । यथा, — लोमश उवाच । “ततो बहुतिथे काले स राजा पञ्चतां गतः । वैदिकेन विधानेन न लेभे सौर्द्धदेहिकम् ॥ विष्णुप्रद्वेषमात्रेण युगानां सप्तविंशतिम् । भुक्त्वा च यातनां यामीं निस्तीर्णनरको नृपः ॥ समया गिरिराजन्तु पिशाचोऽभूत्तदा महान् ॥” तस्य रूपं यथा, —
“देवद्युतिरधीयानः शुश्राव करुणामयः । समागत्य ततस्तत्र तं पिशाचं ददर्श सः ॥ विकरालमुखं दीनं पिशङ्गनयनं भृशम् । ऊर्द्ध्वमूर्द्धजकृष्णाङ्गं यमदूतमिवापरम् ॥ चलज्जिह्वञ्च लम्बोष्ठं दीर्घजङ्घशिराकुलम् । दीर्घाङ्घ्रिं शुष्कतुण्डञ्च गर्त्ताक्षं शुष्कपञ्जरम् ॥” इति पाद्मोत्तरखण्डे १६ अध्यायः ॥ * ॥
प्रेतत्यादि जनककर्म्माणि यथा, —
“हविर्ज्जुह्वति नाग्नौ ये गोविन्दं नार्च्चयन्ति ये । लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्च ये ॥ सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम् । आर्त्तेभ्यो न प्रयच्छन्ति सर्व्वे सुकृतदारकाः ॥ ब्रह्मस्वञ्च स्त्रीधनानि लोभादेव हरन्ति ये । बलेन छद्मना वापि धूर्त्ताश्च परवञ्चकाः ॥ नास्तिकाः कुहकाश्चौरा ये चान्ये वकवृत्तयः । बालवृद्धातुरस्त्रीषु निर्द्दयाः सत्यवर्ज्जिताः ॥ अग्निदा गरदा ये च ये चान्ये कूटसाक्षिणः । अगम्यागानिनः सर्व्वे ये चान्ये ग्रामयाजिनः ॥ व्याधाचरणसम्पन्ना वर्णादिधर्म्मवर्ज्जिताः । देवोपदेवदनुजरक्षोयक्षादिसेविनः ॥ सर्व्वदा मादकद्रव्यपानमत्ता हरिद्बिषः । देवतोच्छिष्टपतितनृपश्राद्धान्नभोजिनः ॥ असत्कर्म्मरता नित्यं सर्व्वपातकपापिनः । पाषण्डधर्म्मचरणाः पुरोधोवृत्तिजीविनः ॥ पितृमातृस्नुषापत्यस्वदारत्यागिनश्च ये । ये कदर्य्याश्च लुब्धाश्च नास्तिका धर्म्मदूषकाः ॥ त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतम् । गवां भूमेश्च हर्त्तारो ये चान्ये रत्नदूषकाः ॥ महाक्षेत्रेषु सर्व्वेषु प्रतिग्रहरताश्च ये । परद्रोहरता ये च तथा ये प्राणिहिंसकाः ॥ परापवादिनः पापा देवतागुरुनिन्दकाः । कुप्रतिग्राहिणः सर्व्वे सम्भवन्ति पुनः पुनः ॥ प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयोनिषु । न तेषां सुखलेशोऽस्ति इह लोके परत्र च ॥” इति पाद्मोत्तरखण्डे १८ अध्यायः ॥ * ॥
पञ्चप्रेतोपाख्यानं यथा, — ब्राह्मण उवाच । “प्रेतानां नाम जातीनां युष्माकं सम्भवः कथम् । किन्तत् कारणमुद्दिश्य यूयमीदृशनामकाः ॥ प्रेता ऊचुः । अहं स्वादु सदा भुक्त्वा दद्यां पर्य्युषितं सदा । एतत्कारणमुद्दिश्य नाम पर्य्युषितं मम ॥ १ ॥ सूचिता बहवोऽनेन विप्राद्या ह्यन्नकाङ्क्षिणः । एतत् कारणमुद्दिश्य सूचीमुखमिमं विदुः ॥ २ ॥ शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै । पश्चाद्भुङ्क्ते द्विजः शिष्टमेष शीघ्रक उच्यते ॥ ३ ॥ गृहोपरि सदा भुङ्क्ते स्वादु द्विजभयेन हि । द्विजाय कुत्सितं दत्त्वा एष रोहक उच्यते ॥ ४ ॥ मौनेनापि स्थिरो नित्यं याचितो विलिखेन्महीम् । अस्माकमवि पापिष्ठो लेखको नाम एष वै ॥ ५ ॥ मेढ्रेण लेखको याति रोहकः पार्श्वतःशिराः । शीघ्रकः पङ्गुतां प्राप्तः सूची सूचीमुखोऽभवत् ॥” प्रेतानामाहारो यथा, — द्विज उवाच । “ये जीवा भुवि तिष्ठन्ति सर्व्वे आहारमूलकाः । युष्माकमपि आहारं ओतुमिच्छामि तत्त्वतः ॥ प्रेता ऊचुः । शृणु आहारमस्माकं सर्व्वसत्त्वविगर्हितम् । श्लेष्ममूत्रपुरीषेण योवितान्तु मलेन च ॥ गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै ॥ स्त्रीभिर्जग्धानि जीर्णानि संकीर्णापहतानि च । मलेनातिजुगुप्सानि प्रेता भुञ्जन्ति तत्र वै ॥ भयलज्जाविहीनानि पतितैः सेवितानि च । अन्योन्यदस्युयुक्तानि प्रेता भुञ्जन्ति तत्र वै ॥ कलहान्वितशोकानि त्यक्तशोभानि मण्डनैः । सवर्च्चस्कानि भाण्डानि प्रेता भुञ्जन्ति तत्र वै ॥ वलिमन्त्रविहीनानि द्विजादृष्टानि यानि तु । नियमव्रतहीनानि प्रेता भुञ्जन्ति तत्र वै ॥ गुरवो नैव पूज्यन्ते स्त्रीजितानि मलानि च । सक्रोधान्यपवित्राणि प्रेता भुञ्जन्ति तत्र वै ॥ भुञ्जन्ति भिन्नभाण्डेषु मर्य्यादारहितेषु च । अन्योन्योच्छिष्टयुक्तेषु तत्र प्रेतास्तु भुञ्जते ॥ सकेशमाक्षिकोच्छिष्टं पूतिपर्य्युषितं तथा । सक्रोधञ्च सशोकञ्च तच्च प्रेतेषु भोजनम् ॥ सनग्नं भोजनं यच्च नोत्तरीयं पदासनम् । सोष्णीषं सासुरीकक्षं तच्च प्रेतेषु भोजनम् ॥ अर्द्धग्रासं महाग्रासं सोत्क्षिप्तं पतितं तथा । दुर्भुक्तं गोष्ठिकञ्चैव तच्च प्रेतेषु भोजनम् ॥ सौतिकं मृतकञ्चैव रजसं कलुषीकृतम् । निर्द्दीपं कृमिवच्चाग्रे यद्भुक्तं प्रैतिकन्तु तत् ॥ एतत्ते कथितं सर्व्वं यत् प्रेतेष्वेव भोजनम् । निर्व्विण्णाः प्रेतजात्या वै पृच्छामस्त्वां द्विजो- त्तम ! ॥” * ॥
प्रेतत्वाभावकारणं यथा, —
“न प्रेतो जायते येन येन चैवेह जायते । एतत् सर्व्वं समासेन प्रब्रूहि वदतां वर ! ॥ ब्राह्मण उवाच । एकरात्रं त्रिरात्रं वा कृच्छं चान्द्रायणादिकम् । व्रतेष्वप्युषियो यस्तु न प्रेतो जायते नरः ॥ मिष्टान्नपानदाताथ सततं श्रद्धयान्वितः । देवपूजाकरो नित्यं न प्रेतो जायते नरः ॥ त्रिरग्निरेकपञ्चाग्निर्निरग्निर्वाप्युपासकः । सर्व्वभूतदयापन्नो न प्रेतो जायते नरः ॥ तुल्यमानापमानश्च तुल्यः काञ्चनलोष्टयोः । तुल्यः शत्री च मित्रे च न प्रेतो जायते नरः ॥ देवतातिथिपूजासु गुरुजातिषु नित्यशः । वेदशास्त्ररतो नित्यं न प्रेतो जायते नरः ॥ जितक्रोधो मदैश्वर्य्यतृष्णासङ्गविवर्जितः । क्षमाक्रोधसुशीलश्च न प्रेतो जायते नरः ॥ देवतातिथिपूजास्तु पर्व्वतांश्च नदीस्तथा । पश्येद्देवालयांश्चैव न प्रेतो जायते नरः ॥” * ॥
प्रेतत्वकारणं यथा, —
“शूद्रान्नं यो द्बिजो भुड्क्ते यः क्रामति द्बिजो- त्तमम् । वृत्तिहा द्विजदेवेषु स प्रेतो जायते नरः ॥ मातरं पितरं वृद्धं ज्ञातिं साधुजनं तथा । लोभात् त्यजति यः स्नेहं स प्रेतो जायते नरः ॥ अयाज्ययाजकश्चैव याज्यञ्च परिवर्जयेत् । शूद्रानुग्रहकर्त्ता च स प्रेतो जायते नरः ॥ कुज्योतिषि कुविद्यस्तु कुजनेषु कुदेशकः । शूद्रसेवाकरो राज्ञा स प्रेतो जायते नरः ॥ सेवकायापद्रुतो यः सेवकस्त्वपरिग्रहः । ताबुभावपि जायेते प्रेतौ कालान्नकिंप्रदः ॥ द्विजानुमन्त्रितो भुङ्क्ते शूद्रान्नं वा द्बिजस्य तु । शूद्रेणैव द्बिजः प्रेतो निरयानुपगच्छति ॥ गीतवाद्यरतो नित्यं मद्यपस्त्रीनिषेवणात् । द्यूतमांसप्रियो यस्तु स प्रेतो जायते नरः ॥ वृथारेतो वृथामांसो वृथावादी वृथामतिः । निन्दको द्बिजदेवानां स प्रेतो जायते नरः ॥ वृद्धं बालं गुरुं विप्रं योऽवमन्य भुनक्ति वै । कन्यां ददाति शुल्केन स प्रेतो जायते नरः । न्यासापहर्त्ता मित्रध्रुक् परपाकरतस्तथा । विश्रम्भघाती कूटश्च स प्रेतो जायते नरः ॥ निर्द्दोपान् सुहृदो नारीस्त्यजेत् कालान्न पाति यः । धनमीहेत यस्तेषां स प्रेतो जायते नरः ॥ हस्त्यश्वरथयानानि मृतशय्यासनादि यः । कृष्णाजिनञ्च गृह्णाति अनापत्सु गतो द्विजः ॥ तथोभयमुखीं कालं सशैलां मेदिनीं द्बिजः । कुरुक्षेत्रस्य यद्दानं चाण्डालात् पतितात्तथा । मासिकेऽपि नवश्राद्धे भुञ्जन् प्रेतान्न मुच्यते ॥ ब्रह्महा गोवधी स्तेयी सुरापो गुरुतल्पगः । भूमिकन्यापहर्त्ता यः स प्रेतो जायते नरः ॥ लालासङ्करकृन्नित्यं वर्णसङ्करकृत्तथा । योनिसङ्करकृच्चापि स प्रेतो जायते नरः ॥ विक्रीणाति विषं शङ्खं तिलानां लवणस्य तु । गवां केशरिणां मोहात् विक्रयात् प्रेततां व्रजेत् ॥ कूटमाप्ये च तौल्येन क्रयं क्रीणाति विक्रयात् । मद्यतक्रपयोदध्नां स प्रेतो जायते नरः ॥ स्त्रीरक्तो मद्यमाने तु मृगयामनुधावति । नित्यनैमित्तिकेऽदाता स प्रेतो जायते नरः ॥” इत्यग्निपुराणम् ॥ * ॥
मनुष्याणां आतिवाहिकदेहानन्तरं प्रेतदेहो भवति । यथा, विष्णुधर्म्मोत्तरे । “तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् । आतिवाहिकर्संज्ञोऽसौ देहो भवति भार्गव ! ॥ केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित् । प्रेतपिण्डैस्ततो दत्तैर्देहमाप्नोति भार्गव ! ॥ भोगदेहमिति प्रोक्तं क्रमादेव न संशयः । प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् ॥ श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते । तत्रास्य यातना घोराः शीतवातातपोद्भवाः ॥ ततः सपिण्डीकरणे बान्धवैः स कृते नरः । पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते ॥ ततः स नरके याति स्वर्गे वा स्वेन कर्म्मणा ॥” इति शुद्धितत्त्वम् ॥