संस्कृत-शब्दकोशः

प्रेतगृह प्रेतदेह

प्रेततर्पण

वाचस्पत्यम्

प्रेततर्पण ||‍ न० ६ त० । मृगोद्देशेन् वर्षपर्य्यन्तं प्रेतशब्दोल्ले- खेन कर्त्तव्ये तर्पणविशेषे तद्विधानं शु० ति० यथा ||‍मिश्राचार्य्यपृथ्वीधरधृतविष्णुसूत्रम् “अतः सर्वे शवस्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्वितीयान्तं तर्पयेयुः पितृशब्दोच्चारेण पितृहा भवति” । शाता- तपः “प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम्” इति प्रेतान्तेति तत्पुरुषः न बहुव्रीहिः सर्वजघन्यत्वात् तेन प्रेतान्तनाम—गोत्रञ्चेति समासः एतद्वचनाच्चितापि- ण्डदाने उपतिष्ठतामिति पितृदयितायामप्युक्तम् । एतेन प्रेतकार्ये समन्धार्थकपदप्रयोगो मैथिलोक्तो हेयः । एते- नामुकगोत्रममुकदेवशर्माणं तर्पयामीति मामगानां प्र- योगः । अत्र प्रेततर्पणे सतिलांस्त्विति विशेषापादानात् सूर्य्यादिवारेऽपि तिलैरेव तर्पणं प्रतीयते । व्यक्तमाह कदमपारिजातधृता स्मृतिः “अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च । उपाकर्मणि चोत्सर्गे युगादौ मृतवा- सरे । सूर्य्यशुक्रादिवारे च न दोषस्तिलतर्पणे” । तथा “तीर्थे तिथिविशेषे च कार्य्यं प्रेते च सर्वदा” । तिथिवि- शेषे अमावस्यादशहरादौ । अत्र दक्षिणाङ्गुष्ठसहित- मध्यमादिना वामहस्ते तिलदानं “वामहस्ते तिलान् दत्त्वा जलमध्ये तु तर्पयेत् । मुक्तहस्तन्तु कर्त्तव्यं न मुद्रां तत्र दर्शयेत्” इति विद्याकरधृतवचने वामहस्त इति सप्तम्यन्तश्रवणात् “तिलान् संमिश्रयेज्जले” इति तिलाधिकरणमुपक्रम्याभिधानाच्च । “सव्येन च तिलाः ग्राह्याः” इत्यत्रापि वामहस्ते स्थाप्या इत्यर्थः । सव्येनेति स्थाल्या पचतीतिवदधिकरणे तृतीया “विवक्षातो हि कारकाणि भवन्ती” त्युक्तेः । मुद्रा अङ्गुष्ठतर्जन्यात्मकयोग- रूपा तिलग्रहणायेति शेषः” ।


शब्दकल्पद्रुमः

प्रेततर्पणं || क्ली (प्रेतस्य तर्पणम् ।)
मरणावधि- सपिण्डीकरणपर्य्यन्तं प्रेतशब्दोल्लेखेन जलदानम् । यथा । “अत्र प्रेततर्पणे तिलांस्त्विति विशेषो- पादानात् सूर्य्यादिवारेणापि तिलैरेव तर्पणं प्रतीयते ॥ तदनुष्ठानं यथा । अपः सर्व्वे शव- स्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्बिती- यान्तं तर्पयेयुः पितृशब्दोच्चारणेऽपि पितृहा भवति । एतेन अमुकगोत्रं प्रेतं अमुकदेव- शर्म्माणं तर्पयामि । इति सामगानां प्रयोगः । यजुर्व्वेदिनान्तु अमुकगोत्र प्रेत अमुकदेवशर्म्मन् तृप्यस्व । इति सम्बोधनान्तवाक्यम् ।” इति शुद्धितत्त्वम् ॥



Correction: