शब्दकल्पद्रुमः
प्रेतदेहः || पुं क्ली, (प्रेतस्य देहः ।)
प्रेतशरीरम् । यथा, —
“कृते सपिण्डीकरणे नरः संवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥” इति तिथ्यादितत्त्वधृतविष्णुधर्म्मोत्तरीयवचनम् ॥ पूरकपिण्डदानेन तदुत्पत्तिर्यथा, —
“शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा । द्बितीयेन तु कर्णाक्षिनासिकास्तु समासतः ॥ गलांसभुजवक्षांसि तृतीयेन यथाक्रमात् । चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि च ॥ जानुजङ्घे तथा पादौ पञ्चमेन तु सर्व्वदा । सर्व्वमर्म्माणि षष्ठेन सप्तमेन तु नाडयः ॥ दन्तलोमाद्यष्टमेन वीर्य्यश्च नवमेन तु । दशमेन च पूर्णत्वं तृप्तता क्षुद्विपर्य्ययः ॥” इति शुद्धितत्त्वधृतकूर्म्मपुराणवचनम् ॥