वाचस्पत्यम्
प्रेत्य || अव्य० प्र + इ—ल्यप् । १ लोकान्तरे अमरः “प्रेत्य संज्ञा नास्ति” श्रुतिः । २ मृत्वेत्यर्थे प्रकर्षेण देहत्यागेन अन्यदेहं गत्वेन्यर्थे च । प्रेत्यजातिः प्रेत्यभावः ।
शब्दकल्पद्रुमः
प्रेत्य || व्य, (प्र + इ + ल्यप् ।)
लोकान्तरम् । तत्- पर्य्यायः । अमुत्र २ । इत्यमरः । ३ । ४ । ८ ॥ (यथा, मनुः । २ । ९ । “श्रुतिस्मृत्युदितं धर्म्ममनुतिष्ठन् हि मानवः । इह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥”)