वाचस्पत्यम्
प्रेत्यभाव || पु० प्रेत्य मृत्वा भावः । मरणोत्तरं पुनर्जन्मनि । “पुनरुत्पत्तिः प्रेत्यभावः” गौ० सू० १ । १ । १९ “उत्पन्नस्य क्वचित् सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्य- भावः । उत्पन्नस्य सम्बद्धस्य सम्बन्धस्तु देहेन्द्रियमनो- बुद्धिवेदनाभिः पुनरुत्पत्तिः पुनर्देहादिभिः सम्बन्धः पुनरित्यभावाभिधानम् यत्र क्वचित् प्राणभृन्निकाये वर्त्तमानः पूर्वोपात्तान् देहादीन् जहाति तत् प्रैति यत् ततोऽन्यत्र देहादीनन्यानुपादत्ते तद्भवति प्रेत्य- भावो मृत्वा पुनर्जन्म सोऽयं जन्ममरणप्रबन्धाभ्यासोऽ- नादिरपवर्गान्तः प्रेव्यभावो वेदितव्य इति” वात्स्या० । प्रवाहरूपेणानादिसम्बन्धः संसारः प्रेत्यभावः यथोक्तं कणा० सू० उप० वृ० “इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः” “तत्संयोगो विभागः” सू० “इदानीं धर्माधर्मयोः प्रयोजनं प्रेत्यभावमाह । ताभ्यां धर्माधर्माभ्यां संयोगोजन्म अपू- र्वाभिः शरीरेन्द्रियवेदनाभिः सम्बन्धः संयोग इहोच्यते विभागस्तु शरीरमनोविभागो मरणम् तथा चायं जन्ममरणप्रबन्धः संसारः प्रेत्यभावापरनामा धर्माधर्मा- भ्यामित्यर्थः अस्यैव च प्रेत्यभावस्याजरञ्जरीभाव इति वैदिकी संज्ञा” । “जातस्य च ध्रुवोमृत्युध्रुवं जन्म मृतस च” गीतायां च जन्ममरणप्रवाहस्य ध्रुवत्वमुक्तम् ।