वाचस्पत्यम्
प्रेमन् || पु० न० प्रियस्य भाव इमनिच् प्रादेशः एकाच्कत्वात् न टिलोपः । १ सौहार्दे २ स्नेहे ३ हर्षे मेदि० (वायौ इन्द्रे) शब्दस्तोमोक्तिः प्रामादिकी । “यद्भावबन्धनं यूनोः स प्रेमा परिकीर्त्तिता” उज्ज्वलमण्युक्ते ४ भावबन्धभेदे पु०
शब्दकल्पद्रुमः
प्रेम || [न्] क्ली, पुं, (प्रियस्य भावः । प्रिय + “पृथ्वादिभ्य इमनिज्वा ।” ५ । १ । १२२ । इति इमनिच् । “प्रियस्थिरेति ।” ६ । ४ । १५७ । इति प्रादेशः । प्री तर्पणे + मनिन् वा ।)
सौहार्द्यम् । तत्पर्य्यायः । प्रेमा २ प्रियता ३ हार्द्दम् ४ स्नेहः ५ । इत्यमरः । १ । ७ । २७ ॥ (यथा, देवीभागवते । १ । १४ । २४ । “दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससम्भ्रमः । आलिलिङ्ग मुहुर्घ्राणं मूर्द्ध्नि तस्य चकार ह ॥”)
नर्म्म । इति मेदिनी । ने, ९४ ॥
शब्दकल्पद्रुमः
प्रेमा || [न्] पुं, (प्रिय + इमनिच् । प्री तर्पणे + मनिन् वा ।)
स्नेहः । इत्यमरः । १ । ७ । २७ ॥ अस्य लक्षणं यथा, —
“सर्व्वथा ध्वंसरहितं सत्यपि ध्वंसकारणे । यद्भावबन्धनं यूनोः स प्रेमा परिकीर्त्तितः ॥” इत्युज्ज्वलनीलमणिः ॥ वासवः । वायुः । इति मेदिनी । ने, ९४ ॥