शब्दकल्पद्रुमः
प्रेमालिङ्गनं || क्ली (प्रेम्णा यदालिङ्गनम् ।) स्नेहेन परिस्वङ्गः । नायकनायिकयोरालिङ्गनविशेषः । तल्लक्षणं यथा । नायककटिं नायिकयैकपादेन वेष्टयित्वा द्वितीयं पादं तस्य जङ्घोपरि स्थाप- यित्वा यदालिङ्गनं तत् । इति कामशास्त्रम् ॥