वाचस्पत्यम्
प्रेयस् || त्रि० अतिशयेन प्रियः प्रिय + ईयसुन् प्रादेशः एका च्कत्वात् न टिलोपः। प्रियतमे स्त्रियां ङीप् “प्रेयस्यपि प्रोक्तिता” प्रबोधण० । १ पत्यौ पु० २ भार्य्यायां स्त्री हेम० ।
शब्दकल्पद्रुमः
प्रेयान् || [स्] पुं, (अयमनयोरतिशयेन प्रियः । प्रिय + ईयसुन् । प्रादेशः ।)
पतिः । तत्- पर्य्यायः । दयितः २ कान्तः ३ प्राणेशः ४ वल्लभः ५ प्रियः ६ हृदयेशः ७ प्राणसमः ८ प्रेष्ठः ९ प्रणयी १० । इति हेमचन्द्रः ॥ अति- प्रिये, त्रि । इति जटाधरः ॥