संस्कृत-शब्दकोशः

प्रैष प्रोक्त

प्रैष्य

वाचस्पत्यम्

प्रैष्य is an alternate of प्रेष्य. प्रे(प्रै)ष्य ||‍ त्रि० प्र + इष—कर्मणि ण्यत् वृद्धिः ईष—वा ण्यत् गुणः । १ प्रेरणीये नियोज्ये २ दामे अमरः । भावे यत् । ३ प्रे- रणे न० तत्करोति कृ—ट । प्रेष्यकर नियोगकारके “यन्तुः षुएष्यकराहयः” भा० द्रो० २३ अ० ।


शब्दकल्पद्रुमः

प्रैष्यः || पुं, (प्र + इष् + कर्म्मणि ण्यत् । “प्रादू- होढोढ्येषैष्येषु ।” ६ । १ । ८९ । इत्यस्य वार्त्ति- कोक्त्या वृद्धिः ।)
प्रेष्यः । इत्यमरटीकायां भरतः ॥ (यथा, कुमारे । ६ । ५८ । “जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् । विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥” क्ली, प्रेष्यस्य भावः । दासकर्म्म । यथा, कथा- सरित्सागरे । ३० । ९५ । “गवादिरक्षकान् पुत्त्रान् भार्य्यां कर्म्मकरीं निजाम् । तस्य कृत्वा गृहाभ्यर्णे प्रैष्यं कुर्व्वन्नुवास सः ॥”)



Correction: