संस्कृत-शब्दकोशः

प्रोक्त प्रोक्षण्ण

प्रोक्षण

शब्दकल्पद्रुमः

प्रोक्षणं || क्ली (प्र + उक्ष सेचने + ल्युट् ।)
यज्ञार्थ- पशुहननम् । इत्यमरः । २ । ७ । २६ ॥ (यथा, महाभारते । ५ । १७ । ९ । “य इमे ब्राह्मणाः प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् । एते प्रमाणं भवतः उताहा नेति वासव ! ॥” श्राद्धाद्युचितसंस्कारः । यथा, भागवते । ९ । ६ । ८ । “चोदितः प्रोक्षणायाह दुष्टमेतदकर्म्मकम् ॥”)
वधः । सेचनम् । इति मेदिनी । णे, ६४ ॥ (यथा, मनुः । ५ । ११८ । “अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥”)



Correction: