संस्कृत-शब्दकोशः

प्रोढ प्रोढि

प्रोढपाद

वाचस्पत्यम्

प्रो(प्रौ)ढपाद ||‍ त्रि० प्रौढः पादो यस्य । आसनारोपितपादा- दिके “आसनारूढपादस्तु जानुनीर्जङ्घयोस्तथा । कृताव सक्थिको यस्तु प्रौढपादः स उच्यते । स्नानमाचमनं होमं भोजनं देवतर्चनम् । प्रौढपादो न कुर्वीत स्वा- ध्यायं पितृतर्पणम्” इति छन्दोगप० । “अनेकवाह्ये दारुशिले भूमिसमे इष्टकाश्च संकीर्णीभूता” इति बौधा- यनवचनात्तथाविधे आरूढपादोऽपि न कुर्य्यात्” आ० त० ।



Correction: