वाचस्पत्यम्
प्रोथ || परिपूर्णतायाम् सामर्थ्ये च भ्वा० उभ० अक० मेट् । प्रो- थति ते अप्रोथीत् अप्रोथिष्ट पुप्रोथ थे । ऋदित् चङि न ह्रस्वः । अपुप्रोथत् त ।
वाचस्पत्यम्
प्रोथ || पु० न० प्रु + थक् । १ प्रस्थिते “वृक्षान्तसुदकान्तञ्च प्रियं प्रोथमनुव्रजेत्” । २ अश्वनासिकायाम् अमरः । ३ कट्यां पु० मेदि० ४ शाटके पु० त्रिका० । ५ स्त्रीगर्भे पु० विश्वः ६ गर्त्ते ७ भीषणे ८ स्फिग्देशे ९ अश्वमुखे च संक्षिप्तसारः १० पथिके त्रि० ११ प्रथिते त्रि० त्रिका० १२ स्थापिते त्रि० सि० कौ० ।
शब्दकल्पद्रुमः
प्रोथ || ऋ ञ पर्य्यापणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-अक०-सेट् ।)
रेफयुक्तः । ऋ, अपुप्रोथत् । ञ, प्रोथति प्रोथते । पर्य्यापणं सामर्थ्यम् । पुप्रो- थास्मै न कश्चन । पर्य्यापणं परिपूर्णता । इति गोविन्दभट्टः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
प्रोथः || त्रि (प्रवते इति । प्रुङ् गतौ + “तिथपृष्ठ- गूथयूथप्रोथाः ।” उणा ० २ । १२ । इति थक् । निपातनात् गुणः ।)
अध्वगः । इति मेदिनी । थे, १० ॥ प्रथितः । इति त्रिकाण्डशेषः ॥ स्थापितः । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥
शब्दकल्पद्रुमः
प्रोथः || पुं, (प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । यद्वा, प्रुङ् गतौ + “तिथपृष्ठमूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक् । निपानात् गुणः ।)
कटी । इति मेदिनी । थे, १० ॥ शाटकः । इति त्रिकाण्डशेषः ॥ स्त्रीगर्भः । इति विश्वः ॥ गर्त्तः । भीषणम् । स्फिक् । अश्वमुखम् । इति संक्षिप्त- सारोणादिवृत्तिः ॥
शब्दकल्पद्रुमः
प्रोथः || पुं, क्ली, (प्रवते इति । प्रुङ् गतौ + “तिथ- पृष्ठगूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक् निपातनात् गुणः । यद्वा, प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।)
अश्वनासिका । इत्य- मरः । २ । ८ । ४९ ॥ (यथा, माघे ११ । ११ । “रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥” शूकरनासिकापि । यथा, देवीभागवते । ५ । २८ । २५ । “वाराही शूकराकारा गूढप्रोथा सटाभृता ॥”)