वाचस्पत्यम्
प्रोत्साहन || न० प्रकर्षेण उत्साहनम् । प्रवृत्तस्य कर्त्तव्ये कर्मणि १ प्रकर्षेण यत्नसम्पादने सा० द० उक्ते २ नाट्यालङ्का- रभेदे । प्रोत्साहनञ्च इत्यादिना तान्युद्दिश्य “प्रोत्सा- हनं स्यादुत्साहगिरा कर्मणि योजनम्” इति लक्षि- तम् । यथा “कालरात्रिकरालेयं स्त्रीति किं विचितित् ससि । तज्जगत्त्रितयं त्रातुं तात! ताडय ताडकाम्” ।