वाचस्पत्यम्
प्रोषितभर्तृका || स्त्री प्रोषितः भर्त्ता यस्या कप् । यस्याः पतिः विदेशं गतस्तस्यां स्त्रियाम् “नानाकार्य्यावशाद् यस्यादूरदेशं गतः पतिः । सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका” सा० द० ।
शब्दकल्पद्रुमः
प्रोषितभर्त्तृका || स्त्री (प्रोषितो विदेशगतो भर्त्ता यस्याः । समसान्तकप्प्रत्ययः ।)
विदेशस्य- पतिका । इति जटाधरः ॥ स्वीयादिनायिका- भेदः । तस्या लक्षणं यथा । देशान्तरे गते भर्त्तरि सन्तापाकुला प्रोषितभर्त्तृका । अस्या- श्चेष्टा दशावस्था । यथा । पत्यभिलाषः १ चिन्ता २ स्मृतिः ३ गुणोत्कीर्त्तनम् ४ उद्वेगः ५ विलापः ६ उन्मादः ७ व्याधिः ८ जडता ९ निधनम् १० । मुग्धा प्रोषितभर्त्तृका यथा, —
“दुःखं दीर्घतरं वहन्त्यपि सखीवर्गाय नो भाषते शैवालैः शयनं सृजन्त्यपि पुनः शेते न वा लज्जया । कण्ठे गद्गदवाचमञ्चति दृशा धत्ते न वास्पोदकं सन्तापं सहते यदम्बुजमुखी तद्बेद चेतोभवः ॥” मध्या प्रोषितभर्त्तृका यथा, —
“वासस्तदेव वपुषो वलयन्तदेव हस्तस्य सैव जघनस्य च रत्नकाञ्ची । वाचालभृङ्गसुभगे सुरतौ समस्त- मद्याधिकं भवति तत् सखि किन्निदानम् ॥” प्रगल्भा प्रोषितभर्त्तृका यथा, —
“माला बालाम्बुजदलमयी मौक्तिकी हार- यष्टिः काञ्ची स्थानात् प्रसरति हरौसुभ्रुवः प्रस्थितैव । अन्यद्ब्रूमः किमपि धमनी विद्यते वा नवेति ज्ञातुं बाह्वोरहह वलयं पाणिमूलं प्रयाति ॥” परकीया प्रोषितभर्त्तृका यथा, —
“श्वश्रूः पद्मदलं ददाति तदपि भ्रूसंज्ञया गृह्यते सद्यो मर्म्मरशङ्कया न च तया संस्पृश्यते पाणिना । यातुर्व्वाचि सुहृज्जनस्य वचसा प्रत्युत्तरं दीयते श्वासः किन्तु न मुच्यते हुतवहक्रूरः कुरङ्गी- दृशा ॥” सामान्यवनिता प्रोषितभर्त्तृका यथा, —
“विरहविदितमन्तःप्रेम विज्ञाय कान्तः पुनरपि वसु तस्मादेत्य मे दास्यतीति । भरिचनिचयमक्ष्णोर्न्यस्य वास्पोदबिन्दून् सृजति च पुरयोषिद्द्वारदेशोपविष्टा ॥” इति रसमञ्जरी ॥ (अस्याः अकर्त्तव्यं यदुक्तं चिन्तामणौ तद्यथा, “हास्यं परगृहे यानं समाजोत्सवदर्शनम् । क्रीडां शरीरसंस्कारं त्यजेत् प्रोषितभर्त्तृका ॥”)