संस्कृत-शब्दकोशः

प्रोषितभर्तृका प्रोष्ठपद

प्रोष्ठ

वाचस्पत्यम्

प्रो(प्रौ)ष्ठ ||‍ पु० प्रकृष्ट सोष्ठाऽस्य वा वृद्धिः । (पुँटि) मत्स्यभेदे रायमुकुटः । स्त्रियां ङीष् । २ देशभेदे भा० भी० ९ अ० । ३ गयि च पुंस्त्री० सि० सौ० । प्रोष्ठपदशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

प्रोष्ठः || पुं, (प्रकृष्ट ओष्ठोऽस्येति । “ओत्वोष्ठयोः समासे वा ।” १ । १ । ६४ । इत्यस्य वार्त्ति- कोक्त्या साधुः ।)
प्रोष्ठीमत्स्यः । इत्यमरटीकायां रायमुकुटः ॥ (जनपदविशेषः । यथा, महा- भारते । ६ । ९ । ६१ । “व्यूढकाः कोरकाः प्रोष्ठाः समवेगवशास्तथा ॥” गौः । इति सिद्धान्तकौमुदी । ५ । ४ । १२० ॥)



Correction: