संस्कृत-शब्दकोशः

प्रोष्ठपदा प्रोष्ठपाद

प्रोष्ठपदी

शब्दकल्पद्रुमः

प्रोष्ठपदी || स्त्री (प्रोष्टपदाभिर्युक्ता पौर्णमासी । अण् । स्त्रियां ङीप् ।)
भाद्री पूर्णिमा । यथा, —
“प्रोष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी । एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ॥” इति तिथ्यादितत्त्वम् ॥ अपि च । “लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । प्रोष्ठपद्यां पौर्णमास्यां स याति परमां गतिम् ॥” इति श्रीभागवतटीकायां श्रीधरस्वामी ॥



Correction: