संस्कृत-शब्दकोशः

प्रोष्ठपाद प्रोष्य

प्रोष्ठी

शब्दकल्पद्रुमः

प्रोष्ठी || स्त्री पुं, (प्रकृष्ट ओष्ठो यस्याः । “ओष्ठो- त्वयोः समासे वा ।” नासिकोदरोष्ठेति जाते- रिति वा ङीष् ।)
मत्स्यभेदः । पुँटी माछ इति भाषा । तत्पर्य्यायः । शफरी २ शफरः ३ । इत्यमरः ॥ श्वेतकोलः ४ । इति शब्दरत्नावली ॥ तस्या गुणाः । तिक्तत्वम् । कटुत्वम् । स्वादु- त्वम् । शुक्रकारित्वम् । कफवातनाशित्वञ्च । इति राजवल्लभः ॥ स्निग्धत्वम् । आस्यकण्ठ- रोगनाशित्वम् । श्रेष्ठत्वञ्च । इति राजनिर्घण्टः ॥



Correction: