वाचस्पत्यम्
प्लक्ष || पु० प्लक्ष्यते कीटैः प्लक्ष—कर्मणि घञ् । (पाकुड) १ वृक्षे अमरः । प्रक्ष्लसमीपस्थानात् २ निःसृतायां धरस्वत्यां च भा० व० ८४ अ० । तस्याः प्लक्षप्रस्रवणात् जातणात् तथात्वम् “प्रभवश्च सरस्वत्याः प्लक्षप्रस्रवणं मतम्” भा० श० ५० अ० । ३ प्लक्षद्वीपचिह्निते द्वीपभेदे पु० “प्लक्षो जम्बूप्रमाणो द्वीपः ख्यातिकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वः । तस्याधिपतिः प्रियव्रता- त्मज इध्वजिह्वः स्वं द्वीप्रं सप्त वर्षाणि विभज्य सप्तवर्ष- नामभ्य आत्मजेभ्य आकलथ्य स्वयमात्मयोगेनोपरराम । शिवं यवस सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षा- णि । तेषु गिरयो नद्यश्च सप्तैवामिज्ञाताः मणिकूटो वज्रकूटः शतशृङ्ग इन्द्रसेनो ज्योतिष्मान् सुवर्णो हिर- ण्यष्ठीवो मेघमाल इति सेतुशैलाः । अरुणा नृम्णाऽऽ- ङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरेति महानद्यः । यासां जलोपस्पर्शनविधूतंरजस्तमसोहंस- पतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्य्यमात्मानं यजन्ते” भाग० ५ । २० । “क्षारोदेन यथा द्वीपी जम्बुसंज्ञोऽभिवेष्टितः । संवेष्ट्य- क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः । जम्बुद्वीपस्य विस्तारः शतसाहस्रसस्मितः । स एव द्विगुणो व्रह्मन्! प्लक्षद्वीपो- ऽप्युदाहृतः । सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ज्येष्ठः शान्तभयो नाम शैशिरस्तदनन्तरः । सुखोदय- न्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा इमे । पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा । आनन्दश्च शिवर्ञ्चैव क्षेमकः ध्रुवएव च । मर्य्यादा कारकास्तेषां तथान्ये वर्षपर्बता । सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम! । गोमेदश्चैव चन्द्रश्च नारदो दु- न्दुभिस्तथा । सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः । वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघाः । वसन्ति देवग- न्धर्वसहिताः सततं प्रजाः । तेषु पुण्याः जनपदाश्चिराच्च म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं हि तत् । तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः । नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः । अनुतप्ता शिखा चैव विपापा दिविगा क्रमुः । अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः । एते शैलास्तथा नद्यः प्र- धानाः कथितास्तव । क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सह- स्रशः । ताः पिवन्ति सदा हृष्टा नदीर्जनपदास्तु ते । अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी प्रजा । न तत्रास्ति युगावस्था तेषु स्थानेषु सप्तसु । त्रेतायुगसमः कालः सर्वदैव महामुने!” विष्णुपु० । कल्पभेदान्नामभेदः । तदुत्तरं वनस्य णत्वम् प्लक्षवणम् । प्लक्षस्यादूरदेशादि छ नडा० कुकुच् । प्लक्षकीय तत्समीपादौ त्रि० ।
वाचस्पत्यम्
प्लक्ष || भक्षणे भ्वा० उभ० सक० सेट् । प्लक्षति ते अप्लक्षीत् अप्ल- क्षिष्ट पप्लक्ष क्षे । प्लक्षः ।
शब्दकल्पद्रुमः
प्लक्ष || ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।)
अन्तःस्थतृतीययुक्तः । ञ, प्लक्षति प्लक्षते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
प्लक्षः || पुं, (प्लक्ष्यते भक्ष्यते विहगादिभिरिति । प्लक्ष + कर्म्मणि घञ् ।)
वृक्षविशेषः । पाकुड इति भाषा । तत्पर्य्यायः । जटी २ पर्कटी ३ । इत्य- मरः ॥ पर्कटिः ४ प्लक्ष ५ प्लीक्षा ६ जटिः ७ । इति शब्दरत्नावली ॥ कपीतनः ८ क्षीरी ९ सुपार्श्वः १० कमण्डलुः ११ शृङ्गी १२ अव- रोहशाखी १३ गर्द्दभाण्डः १४ कपीतकः १५ दृढप्ररोहः १६ प्लवकः १७ प्लवङ्गः १८ महा- बलः १९ ॥ ह्रस्वप्लक्षपर्य्यायः । सूक्ष्मः २० सुशीतः २१ शीतवर्य्यकः २२ पुण्ड्रः २३ महा- वरोहः २४ ह्रस्वपर्णः २५ पिम्बरिः २६ भिदुरः २७ मङ्गलच्छायः २८ । अस्य गुणाः । कटु- त्वम् । कषायत्वम् । शिशिरत्वम् । रक्तदोष- मूर्च्छाभ्रमप्रलापनाशित्वञ्च । इति राजनि- र्घण्टः ॥ व्रणयोनिगददाहपित्तकफशोथरक्त पित्तनाशित्वम् । पर्कटी च स्त्रियामपि । इति भावप्रकाशः ॥ कन्दरालवृक्षः । द्बीपभेदः । अश्वत्थवृक्षः । इति मेदिनी । षे, १७ ॥ पक्षकः । इति हेमचन्द्रः ॥