संस्कृत-शब्दकोशः

प्लति प्लवक

प्लव

वाचस्पत्यम्

प्लव ||‍ न० प्लु—अच् । १ कैवर्त्तीमुस्तके २ गन्धतृणे मेदि० । प्लुत्वा ३ गन्तरि त्रि० । भावे अप् । ४ प्लवने (भासा) कर्त्तरि क- रणे वा अप् । ५ भेके ६ भेलके (भेला) ७ मेषे ८ श्वपचे ९ वानरे १० जलकाके ११ कुलके १२ प्रवणे १३ पर्कटीवृक्षे १४ काररण्डवखगे १५ शब्दे १६ प्रतिगतौ च पु० मेदि० । जातित्वे स्त्रीत्वमपि स्त्रियां ङीष् । १७ प्रेरणे १८ शत्रौ च पु० शब्दरत्ना० । १९ जालभेदे हेमच० २० पलये (पोलो) मत्स्यधारणयन्त्रभेदे त्रिका० । २१ जलकुक्वुटे मिता० २२ जलचरपक्षिगणभेदे यथोक्तं भावप्र० “हंससारसकाचाक्षवकक्रौञ्चसरारिकाः । नान्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः । प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः” । एतेषां मांसगुणाः । “प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः । वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः” ।


शब्दकल्पद्रुमः

प्लवं || क्ली (प्लवते इति । प्लु + अच् ।)
कैवर्त्ती- मुस्तकम् । (अस्याः पर्य्यायो यथा, —
“कुटन्नटं दासपुरं वालेयं परिपेलवम् । प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
गन्धतृणम् । इति मेदिनी । वे, १८ ॥ प्लुतगे, त्रि ॥


शब्दकल्पद्रुमः

प्लव || ङ गत्याम् । (भ्वा०-आत्म०-सक०-सेट् ।)
अन्तःस्थतृतीययुक्तः । ङ, प्लवते । प्लु ङ इत्यने- नैवेष्टसिद्धे अस्य पाठः प्लविष्यते प्लव्यते इत्यादि सिद्ध्यर्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

प्लवः || पुं, (प्लु + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।)
प्लवनम् । (यथा, हरिवंशे । १२२ । १०१ । “सागरानूपविपुलां प्रागुदक्प्लवशीतलाम् । सर्व्वतोदधिमध्यस्थामभेद्यां त्रिदशैरपि ॥” प्लूयतेऽनेनेति करणे अप् ।)
भेलः । (यथा, मुण्डकोपनिषदि । १ । २ । ७ । “प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥” प्लवते सन्तरतीति । प्लु + अच् ।)
भेकः । अविः । श्वपचः । कपिः । जलकाकः । (यथा, सुश्रुते । १ । ४६ । “प्लवानामिक्षुरसासवः ॥”)
कुलकः । प्रवणः । पर्कटीद्रुमः । कारण्डवविहगः । शब्दः । प्रतिगतिः । इति मेदिनी । वे, १६ ॥ प्रेरणम् । शत्रुः । इति शब्दरत्नावली ॥ जलान्त- रम् । इति हेमचन्द्रः । ३ । ५४३ ॥ पलवः । इति त्रिकाण्डशेषः ॥ पोलो इति भाषा ॥ जलकुक्कुटः । इति मिताक्षरा ॥ (यथा, मनौ । ५ । १२ । “कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम् । सारसं रज्जुवालञ्च दात्यूहं शुकसारिके ॥” वकविशेषः । यथा, रामायणे । २ । १०३ । ४३ । “रथाङ्गहंसा नत्यूहाः प्लवाः कारण्डवाः परे । तथा पुंस्कीकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥” “प्लवा वकविशेषाः ।” इति तट्टीकायां रामा- नुजः ॥)
जलचरपक्षिमात्रम् । यथा, —
“हंससारसकाचाक्षवकक्रौञ्चसरारिकाः । नन्दीमुखी सकादम्बा वलाकाद्याः प्लवाः स्मृताः ॥ प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः ॥” एतेषां मांसगुणाः । “प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः । वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥” इति भावप्रकाशः ॥



Correction: