संस्कृत-शब्दकोशः

प्लवङ्गम प्लविक

प्लवन

वाचस्पत्यम्

प्लवन ||‍ त्रि० प्लु—ल्यु । १ निम्ने प्रबणे क्रमनिम्नतां गन्तरि “प्रागुदक् प्लवनां भूमिं कारयेत् यत्नतो नरः” ति० त० मत्स्यपु० । भावे ल्युट् । जलोपरि गतौ न० (भाणा) ।


शब्दकल्पद्रुमः

प्लवनः || त्रि (प्लवते इति । प्लु + ल्यु ।)
प्रवलः । क्रमनिम्नभूम्यादिः । यथा, —
“प्रागुदक्प्लवनां भूमिं कारयेत् यत्नतो नरः ॥” इति तिथ्यादितत्त्वे मत्स्यपुराणम् ॥ (क्ली, प्लु + ल्युट् । प्लवः । यथा, —
“शयनञ्चासनं वापि नेच्छेद्बापि द्रवोत्तरम् । नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)



Correction: