संस्कृत-शब्दकोशः

प्लवङ्ग प्लवन

प्लवङ्गम

वाचस्पत्यम्

प्लवङ्गम ||‍ पु० प्लवन् सन् गच्छति गम—खच् मुम् मि० । १ भेके । ३ वानरे अमरः ।


शब्दकल्पद्रुमः

प्लवङ्गमः || पुं, (प्लवेन गच्छतीति । गम् + “गमश्च ।” ३ । २ । ४७ । इति खच् । मुमागमः ।)
भेकः । वानरः । इत्यमरः । ३ । ३ । १३७ ॥ (यथा, रामायणे । ४ । ६२ । ११ । “एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः । आख्येया राममहिषी त्वया तेभ्यो विह- ङ्गम ! ॥”)
प्लुतगतियुक्ते, त्रि ॥



Correction: