वाचस्पत्यम्
प्लाक्ष || न० प्लक्षस्य समूहः, तस्य विकारस्तस्य फलं वा अण् न लुप् । १ प्लक्षवृक्षफले २ तद्विकारे ३ तत्समुदाये च ।
शब्दकल्पद्रुमः
प्लाक्षं || क्ली (प्लक्षस्य फलम् । “प्लक्षादिभ्योऽण् ।” ४ । ३ । १६४ । इत्यण् । विधानसामर्थ्यात् तस्य फले न लुक् ।)
प्लक्षवृक्षस्य फलम् । इत्यमरः । २ । ४ । १८ ॥ प्लक्षस्य विकारः । प्लक्षस्य समूहः । प्लक्षस्य भावः । प्लक्षस्येदम् । प्लक्षस्य हितम् । इत्यादि व्याकरणम् ॥ (प्लक्षसम्बन्धिनि, त्रि । यथा, —
“नैयग्रोध औदुम्बर आश्वत्थ प्लाक्ष इतीध्मो भवन्त्येते वै गान्धर्व्वाप्सरसां गृहाः स्म एव ॥” इति तैत्तिरीयसंहितायाम् । ३ । ४ । ८ । ४ ॥)