संस्कृत-शब्दकोशः

प्लायोगि प्लावित

प्लावन

वाचस्पत्यम्

प्लावन ||‍ न० प्लु—णिच्—ल्युट् । (उथ्लान) द्रवद्रव्यस्य समन्ता- द्गत “तापनं घृततैलादेः प्लावनं गोरसस्य च । तन्मात्र- मुद्धृतं कुर्य्यात् कठिनं तु पयोदधि” शु० त० । २ निमज्जनस- म्पादने ३ बहुतरजलसंयोजने च । करणे ल्युट् ङीप् । ४ भूतानां धारणाभेदे स्त्री “स्तम्भनी प्लावनी चैव शोषणी भामनी तथा । म्लोचनी च भवन्त्येताः भूतानां पञ्च धारणाः” काशीस्व० ४४ अ० ।


शब्दकल्पद्रुमः

प्लावनं || क्ली (प्लु + णिच् + ल्युट् ।)
द्रवद्रव्यस्योर्द्ध्व- प्रापणम् । उथ्लन इति भाषा । यथा, —
“तापनं घृततैलानां प्लावनं गोरसस्य च । तन्मात्रमुद्धृतं शुद्धेत् कठिनन्तु पयो दधि ॥” इति शुद्धितत्त्वम् ॥ * ॥
मज्जनम् । बहुतरजलसंयोगः । यथा, —
“एतत् श्रुत्वा वचो राजा प्रातिष्ठत भगीरथः । यत्र तानि शरीराणि सागराणां महात्मनाम् ॥ प्लावनार्थं नरश्रेष्ठ ! पुण्येन सलिलेन ह ॥” इति महाभारते । ३ । ११० अध्यायः ॥



Correction: