संस्कृत-शब्दकोशः

प्लाशि प्लाशुचित्

प्लाशुक

वाचस्पत्यम्

प्लाशुक ||‍ पु० प्रकर्षेण आशु कायति भवति कै—क वेदे अस्य लः । प्रकर्षेणाशु पच्यमाने व्रीहौ “प्लाशुकानां ब्रीहीणां सविता वै देवानां प्रसविता सवितृप्रसूतः सूय इत्यथ यत् प्लाशुकानां ब्रीहीणां क्षिप्रे मा प्रसुवानिति” शत० व्रा० ५ । ३ । ३ । २ “प्लाशूनां श्रीर्वै गार्हपतं यावत् हृष्टे तदेनमग्निरेव गृहपतिर्गार्हपतमभिपरिणयत्यथ यदा शूनां क्षिप्रे मा परिणयानिति” ३ म० “प्लाशुकानाम् प्रकर्षेण आशु शोघ्रं पच्यमानानां पुनः प्ररूढानां ब्रीही- णाम्” रेफस्य छान्दसो लत्वनिर्देशः । प्रसुवान् प्रसुवन्तु प्रेरयन्तु । प्लाशुकाः पुनःप्ररूढव्रीहय इत्युक्तम् ततो- ऽप्यधिककाले पक्षत्रये पाच्यमानाः षष्टिका ब्रीहयःआ- शवः तेषामाशुत्वं च त्रिचतुरमासनियतपरिपाकव्रीह्य- पेक्षम्” भा० ।



Correction: