संस्कृत-शब्दकोशः

प्लीहघ्न प्लीहशत्रु

प्लीहन्

वाचस्पत्यम्

प्लीहन् is an alternate of प्लिहन्. प्लि(प्ली)हन् ||‍ पु० प्लि—कनिन् पृषो० वा दीर्घः । (पिला) १ वामकुक्षिपार्श्वस्थे मांसखण्डे तद्वृद्धिहेतुके २ रोगभेदे च तन्निदानादि भावप्र० उक्तं यथा “विदाह्यभिष्यन्दिरसस्य जन्तोः प्रदुष्टमत्यर्थमसृक्कफश्च । प्लोहाभिवृद्धिं कुरुतः प्रवृद्धौ त प्लीहसंज्ञं गदमामनन्ति । वामे स पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरो- ऽत्र । मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीण- बलोऽतिपाण्डु” । विदाहि कुलत्थमाषसर्षपशाकादि । अभिषन्दि माहिषं दध्यादि । कफपित्तलिङ्गैरुपद्रुत इ- त्यर्थः । प्रदुष्टमत्यर्थमसृक्कफश्चेति संप्राप्तिः असृजः पि- त्तस्य च समानधर्मत्वात् । रक्तजमाह “क्लमो भ्रमो बिदाहश्च वैवश्र्ण्यं गात्रगौरवम् । मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम्” । पैतिकस्य लक्षणमाह “सज्वरः सपिपासश्च सदाहो मोहसंयुतः । पीतगात्रो विशे- षेण प्लोहा पैत्तिक उच्यते” । श्लैष्मिकलक्षणमाह “प्लीहा मन्दव्यथास्थूल कठिनो गौरवान्वितः । अरो- चकेन संयुक्तः प्लीहा कफज उच्यते” । वातिकमाह “नित्यमानद्धकोष्ठः स्या(न्नित्योदावर्त्तपीडितः । वेद- नाभिः परीतश्च प्लीहा वातिक उच्यते” । तमसाध्यमाह “दोषत्रितयरूपोऽन्यः प्लीहाऽसाध्यो भवत्यपि” भावप्र० । तत्रैवान्यत्र तत्स्थानमुक्तं यथा “अथ शरीरावयवविशेषस्थ यकृत्प्लीहस्वरूपमाह “अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः । तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम्”


शब्दकल्पद्रुमः

प्लीहा || [न्] पुं, (प्लिह + “श्वनुक्षन्पूषन्प्लीह- न्निति ।” उणा० १ । १५८ । इति कनिन् प्रत्ययेन साधुः ।)
कुक्षिवामपार्श्वस्थमांसखण्डम् । पिला इति ख्यातम् । तत्पर्य्यायः । गुल्मः २ प्लिहा ३ । इत्यमरभरतौ ॥ अस्य निदानम् । “विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च । प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौ प्लीहोत्थमेतज्जठरं वदन्ति ॥ तद्बामपार्श्बे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र । मन्दज्वराग्निः कफपित्तलिङ्गै- रुपद्रुतः क्षीणबलोऽतिपाण्डुः ॥” इति माधवकरः ॥ * ॥
रक्तजस्य तस्य लक्षणम् । “क्लमो भ्रमो विदाहश्च वैवर्ण्यं गात्रगौरवम् । मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम् ॥” * ॥
पैत्तिकस्य तस्य लक्षणम् । “सज्वरः सपिपासश्च सदाहो मोहसंयुतः । पीतगात्रो विशेषेण प्लीहा पैत्तिक उच्यते ॥” श्लैष्मिकस्य तस्य लक्षणम् । “प्लीहा मन्दव्यथः स्थूलः कठिनो गौरवान्वितः । अरोचकयुतः शीतः प्लीहा कफज उच्यते ॥” वातिकस्य तस्य लक्षणम् । “नित्यमानद्धकोष्ठः स्यान्नित्योदावर्त्तपीडितः । वेदनाभिः परीतश्च प्लीहा वातिक उच्यते ॥ दोषत्रितयरूपाणि प्लीह्न्यसाध्ये भवन्ति हि ॥” अथ तस्य चिकित्सा । “पातव्यो युक्तितः क्षारः क्षीरेणीदधिशुक्तिजः । तथा दुग्धेन पातव्याः पिप्पल्यः प्लीहशान्तये ॥ १ ॥ अर्कपत्रं सलवणं पुटदग्धं सुचूर्णितम् । निहन्ति मस्तुना पीतं प्लीहानमपि दारुणम् ॥ २ ॥ हिङ्गु त्रिकटुकं कुष्ठं यवक्षारञ्च सैन्धवम् । मातुलुङ्गरसोपेतं प्लीहशूलहरं रजः ॥ ३ ॥ पालाशक्षारतोयेन पिप्पली परिभाविता । प्लीहगुल्मार्त्तिशमनी वह्रिमान्द्यहरी मता ॥ ४ ॥ रसेन जम्बीरफलस्य शङ्ख- बाभीरजः पीतमवश्यमेव । शाणप्रम्मणं शमयेदशेषं प्लीहामयं कूर्म्मसमानमाशु ॥ ५ ॥ शरपुङ्खमूलकल्कस्तक्रेणालोडितः पीतः । प्लीहानं यदि न हरते शैलोऽपि तदा जले प्लवते ॥ ६ ॥ सुपक्वसहकारस्य रसः क्षीद्रसमन्वितः । पीतः प्रशमयत्येव प्लीहानं नेह संशयः ॥ ७ ॥ सुस्विन्नं शाल्मलीपुष्पं निशापर्य्युषितं नरः ॥ राजिकाचूर्णसंयुक्तं खादेत् प्लीहोपशान्तये ॥” ८ ॥ इति भावप्रकाशः ॥ * ॥
“पिप्पलीमधुपानाच्च यथा मधुरभोजनात् । प्लीहा विनश्यते रूद्र इति ॥ ९ ॥ केतकीपत्रजं क्षारं घृतेन सह भक्षयेत् । तक्रेण शरपुङ्खाभ्यां पीत्वा प्लीहां विना- शयेत् ॥” १० ॥ इति गारुडे १८७ । १८८ अध्यायौ ॥ (“शोणितकफप्रसादजं हृदयं तदाश्रया हि ध्वमन्यः प्राणवहाः । तस्याधो वामतः प्लीहा फुप्फुसश्च ॥” इति सुश्रुते शारीरस्थाने चतुर्थे- ऽध्याये ॥ अस्य सहेतुकलक्षणादीनि यथा, —
“अशितस्यातिसंक्षोभाद् यानयानाभिचेष्टितैः । अतिव्यवायभाराध्ववमनव्याधिकर्षणैः ॥ वामपार्श्वाश्रितः प्लीहा च्युतः स्थानात् प्रवर्द्धते । शोणितं वा रसादिभ्यो विवृद्धन्तं विवर्द्धयेत् ॥ इति तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्द्धमानः कच्छपसंस्थान उपलभ्यते स चोपेक्षितः क्रमेण कुक्षिं जठरमग्न्यधिष्ठानञ्च परिक्षिपन्नुदरमभि- निर्व्वर्त्तयति ॥ तस्य रूपाणि । दौर्ब्बल्यारोचकाविपाकवर्च्चो- मूत्रग्रहतमःपिपासाङ्गमर्द्दच्छर्द्दिमूर्च्छाङ्गसाद- कासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैर- स्यपर्व्वभेदकोष्ठवातशूलान्यपि चोदरमरुणवर्णं विवर्णं वा नीलहरितहारिद्रराजिमद्भवति ।” चिकित्सास्य यथा, —
“पिप्पलीं तिल्वकं हिङ्गु नागरं हस्तिपिप्प- लीम् । भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम् ॥ देवदारुहरिद्रे द्वे सरलातिविषे वचाम् । कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य च । दधिसर्पिर्वसातैलमज्जयुक्तानि दाहयेत् ॥ अन्तर्धूममतः क्षारात् विडालपदकं पिबेत् । मदिरा दधिमण्डोष्णजलारिष्टसुरासवैः ॥ हृद्रोगं श्वयथुं गुल्मं प्लीहार्शो जठराणि च । विसूचिकामुदावर्त्तं वाताष्ठीलाञ्च नाशयेत् ॥” इति चरके चिकित्सास्थानेऽष्टादशेऽध्याये ॥)



Correction: