वाचस्पत्यम्
प्लीहा || स्त्री प्लिह—क पृषो० दीर्घः । प्लीहरोगे भरतः ।
शब्दकल्पद्रुमः
प्लीहा || स्त्री (प्लिह + कः । पृषोदरादित्वात् दीर्घः । स्त्रियां टाप् ।) प्लिहरोगः । यथा, यकृत्प्लीहे च सम्बन्धे । इति बालकास्यः । इत्यमरटीकायां भरतः ॥