वाचस्पत्यम्
प्लुक्षि || पु० प्लुष—दाहे किस । १ वह्नौ उज्वलद० । २ स्नेहे ३ गृहदाहे संक्षिप्तसारः ।
शब्दकल्पद्रुमः
प्लुक्षिः || पुं, (प्लुष्यति दहतीति । प्लुष दाहे + “प्लुषि- कुषिशुषिभ्यः क्सि ।” उणा० ३ । १५५ । इति क्सिः ।)
अग्निः । इत्युणादिकोषः । स्नेहः । गृहदाहः । इति संक्षिप्तसारोणादिवृत्तिः ॥