वाचस्पत्यम्
प्लुत || न० प्लु—भावे क्त । १ अश्वगतिभेदे अमरः । २ तिर्य्यग्- गतौ ३ लम्फेन गतौ त्रिमात्रकालेनोक्कार्ये वर्णे पु० “एक- मात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम्” प्रचीनकारिका । अस्य ह्रस्वदीर्घाणामिवाकारभेदाभावेन तदुत्तरवर्त्तित्र्यङ्क नैव तथात्वसूचनं न तु लेखनेऽस्याकारविशेषोऽस्ति । प्लुतत्व विधायकानि पा० सूत्राणि सवृत्तिकानि सोदहरणान्यत्र प्रदर्श्यन्ते “वाक्यस्य प्लुत उदात्तः” पा० इत्यधिकृत्य “प्रत्यभिवादेऽशूद्रे” पा० “अशूद्रविषये प्रत्यभिवादे यद्- वाक्यं तस्य टेः प्लुतः स्यात् । अभिवादये देवदत्तोऽहम् । भो आयुष्मानेधि देवदत्त! ३ । स्त्रियान्न अभिवादये गा- र्ग्वहं भो आयुष्मनेधि गार्घि! । नामगोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते नेह आयुष्मानेधि भोः । राजन्यविशाञ्चेति वाच्यम् । आयुष्मा- नेधि भोः । आयुष्मानेधीन्द्रवर्म ३ आयुष्मानेधीन्द्रपालित २ । सि० कौ० “दूराद्धूते च” पा० । “दूरात् सम्बोधने यद्वा- क्यन्तस्य टेः प्लुतः स्यात् । सक्तून् पिब देवदत्त ३! “है हे प्रयोगे हैहयोः” पा० । एतयोः प्रयोगे दूराद्धूते यद्वा- क्यन्तत्र हैहयोरेव प्लुतः । स्यात् । है ३ राम! राम! है ३ “गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्” पा० दूराद्धूते यद्वाक्यन्तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे ३ वदत्त । देवद ३ त्त । देवदत्त ३ । गुरोः किम् । वकारात् परस्य अकारस्य मा भूत् । अनृतः किम् । कृष्ण ३ । एकैक- ग्रहणं पर्य्यायार्थम् । इह प्राचामिति योगो विभज्यते तेन सर्वः प्लुतो विकल्प्यते “अप्लुतवदुपस्थिते” पा० । उपस्थितोऽनार्ष इतिशब्दस्तस्मिन् परे प्लुतोऽप्लु तवद्भ- वति । अप्लुतकार्यं यणादिकङ्करोति । सुश्लोक ३ इति । सुश्लोकेति । वत् किम् अप्लुत इत्युक्ते प्लुत एव नि- षिध्येत तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणन्न स्यात् । अग्नी ३ इति । “इ २ चाक्रवर्मणस्य” पा० इ ३ प्लुतो- ऽचि परेऽप्लुतवद्वा स्यात् । चिनुहीति चिनु हि ३ इति । चिनु हि ३ इदं चिनुहौदम् । उभयत्र विभा- षेयम् “ओमभ्यादाने” पा० ओशिब्दस्य प्लुतः स्यात् आ- रम्भे । ओ३म् अग्निमीले पुरोहितम् । अभ्यादाने किम् ओमित्येकाक्षरम् “ये यज्ञकर्मणि” पा० ये ३ यजा- महे । यज्ञेति किम् ये यजामहे ३ “प्रणवष्टेः” पा० यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिन्व- तो३म् । टेः किम् हलन्ते अन्त्यस्य मा भूत् । “याज्यान्तः” पा० ये याज्यान्ता मन्त्रास्तेषामन्त्यस्यटेः प्लु तो यज्ञ- कर्मणि । जिह्वामग्ने! चकृषे हव्यवाह ३ । अन्तः किम् । याज्यानामृचां वाक्यससुदायरूपाणां प्रतिवाक्यं टेर्न स्यात् । सर्वान्तस्य चेष्यते “ब्रूहिप्रेष्यश्रौषड्वौषडा- वाहनामादेः” पा० एषासादेः प्लुतो यज्ञकर्मणि । अ- ग्नयेऽनुब्रू३हि । अग्नये गोमयानि प्रे३ष्य । अस्तु श्रौ ३ षट् । सोमस्याग्ने ब्रूहि वौ ३ षट् । अग्निमा ३ वह “अग्नीत् प्रेषणे परस्य च” पा० अग्नोधः प्रेषणे आदेर्यः प्लुतस्मात् वरस्य च । ओ३ आवह नेह अग्नीदग्नीन् विहर ३ । बर्हिस्तृणीहि ३ । “विभाषा पृष्टप्रतिवचने हेः” पा० प्लुतः । अकार्णीः कटम् अकार्सं हि ३ । अकार्षं हि । पृष्टेति किम् कटं करिष्यति हि ३ । हेः किम् करोमि ननु “निगृह्यानुयोगे च” पा० अत्र यद्वा- क्यन्तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्य ३ । अद्य अमावास्येत्येवंवादिनं युक्त्या स्वमयात प्रच्याव्य एवमनु- युज्यत । “आम्रेडितम्भर्त्सने” पा० दस्यो दस्यो ३ घात- मिष्यामि त्वाम् । आम्रेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर ३ चौर । “अङ्गयुक्तन्तिङाकाङ्क्षम्” पा० अङ्गेत्य- नेन युक्तन्तिङन्तं प्लवते । अङ्ग कूज ३ इदानीं ज्ञास्यसि जाल्म! । तिङ किम्? अङ्ग देवदत्त! मिथ्या वदसि ३ । आकाङ्क्षं किम् अङ्ग पच नैतदपरमाकाङ्क्षति । भर्त्- सन इत्येव । अङ्गाधीष्व भक्तन्तव दास्यामि । “वि- चार्य्यमाणानाम्” पा० वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृह ३ इ । (वक्ष्यमाणेन एतः स्थाने इः) न होतव्य ३ मिति । होतव्यन्न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरोक्षणं विचारः । “पूर्वन्तु भाषा- याम्” पा० विचार्य्यमाणानां पूर्वमेव प्लवते । अहिर्नु ३ रज्जुर्नु । प्रयोगापेक्षत्वं पूर्वत्वम् । इह भाषाग्रह- णात् पूर्वयोगश्छन्दसीति ज्ञायते । “प्रतिश्रवणे च” पा० वाक्यस्य टेः प्लुतोऽभ्युपमे प्रतिज्ञाने श्रवणाभिमुख्ये च! गां मेदेहि भो हन्त ३ ते ददामि ३ । नित्यः शब्दो भवितुमर्हति ३ । देवदत्त! किमात्थ ३ । “अनुदात्तं प्रश्नान्ताभिपूजितयोः” पा० अनुदात्तः प्लुतः स्यात् । दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधी- यते । अग्निभूत ३ इ । पट ३ उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि २ माणवक ३ । “चिदिति चोपमार्थे प्रयुज्यमाने” पा० वाक्यस्य टेर- नुदात्तः प्लुतः । अग्निचिद्भाया३त् । अग्निचिदिव भा- यात् उपमार्थे किम् कथञ्चिदाह । प्रयुज्यमाने किम् अग्निर्माणयको भायात् “उपरिस्विदासीति च” पा० टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्विदासी३त् । अधः स्विदादी ३ दित्यत्र तु विचार्य्यमाणानामित्युदात्तः प्लुतः । “स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु” पा० स्व- रितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असू- यायाम् अभिरूपक ३ अभिरूपक रिक्तन्त आभिरूप्यम् । सम्मतौ । अभिरूपक ३ अभिरूपक शोभनोऽसि । कोप । अविनीतक ३ अविनीतक इदानीं ज्ञास्यसि काल्म! । कुत्सने । शाक्तीक ३ शाक्तीक रिक्ता ते शक्तिः । “क्षि- याशीःप्रैषेषु तिङाकाङ्क्षम्” पा० आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यात् आचारभेदे आशिषि प्रैषेषु गम्यमानेषु । स्वयं ह रथेन याति ३ उपाध्यः यं पदातिं गमयति । प्रार्थनायाम् । पुर्त्रांश्च लप्सीष्ट ३ धनञ्च तात । व्यापारणे । कटं कुरु ३ ग्रामं गच्छ । आकाङ्क किम् दीर्घायुरसि अग्नीदग्नीन्विहर । “अनन्त्यस्यापि प्रश्ना- ख्यानयोः” पा० अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्व- रितः प्लुत एतयोः । प्रश्ने । अगम३ः पूर्वा३न् ग्रामा३न् । सर्वपदानामयम् । आख्याने अगम३म् पूर्वा३न् ग्रा- मा३न् । “प्लुतावैचैदुतौ” पा० यत्र दूराद्धूतादिषु प्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते । ऐ ४ तिकायन! । औ ४ पग्व । चतुर्मात्रावत्र ऐचौ सम्पद्यते । “एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्या- दुत्तरस्येदुतौ” पा० अप्रगृह्यस्य एचोऽदूराद्धूते प्लुत- विषये पूर्वस्यार्द्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्द्धस्य इदुतौ स्तः । प्रश्नान्ताभिपूजितविचार्य्यमाणप्रत्यभिवाद याज्यान्तेष्वेव । प्रश्नान्ते । अगम २ पूर्वा३न् ग्रामा३न् अग्निभूत३ इ । अभिपूजिते । भद्रं करोषि पट३ उ । विचार्य्यमाणे । होतव्यन्दीक्षितस्य गृह३ इ । प्रत्यभि- वादे । आयुष्मानेधि अग्निभूत३ इ । याज्यान्ते । स्तो- मैर्विधेमाग्नय३ इ । परिगणनं किम् विष्णुभूते३ धा- तयिष्यामि त्वाम् । अदूराद्धूत इति न वक्तव्यम् । प- दान्तग्रहणन्तु कर्त्तव्यम् । इह मा भूत् भद्रं करोषि गौ३ रिति । अप्रगृह्यस्य किम् शोभने माले३ । “आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः । अग्न३ इ पत्नीव” सि० कौ०
शब्दकल्पद्रुमः
प्लुतं || क्ली (प्लु + क्तः ।)
अश्वगतिविशेषः । स च त्वरया झम्पेन गतिः । इत्यमरभरतौ ॥ (यथा, अश्ववैद्यके । ३ । १३२ । “अथ यः पुच्छतोऽश्वस्य शनैरविशदो ध्वनिः । अन्तरुत्पद्यते कश्चित्तदश्वप्लुत उच्यते ॥”)
तिर्य्यग्गतिः । इति कलिङ्गः ॥ (यथा, कथा- सरित्सागरे । २७ । १५६ । “तिर्य्यञ्चस्तिर्य्यगेवास्य पेतुर्वक्रप्लुता मृगाः ॥”)
शब्दकल्पद्रुमः
प्लुतः || पुं, (प्लुतं प्लुतवद्गतिरस्यास्तीति । प्लुत + अच् ।)
त्रिमात्रवर्णः । इति मेदिनी । ते, ३५ ॥ यथा, —
“एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनञ्चार्द्धमात्रकम् ॥” इति दुर्गादासादिधृतप्राचीनकारिका ॥ (तथाच । “दूराह्वाने च गाने च रोदने च प्लुतो मतः ॥” इति च दुर्गादासधृतवचनम् ॥ प्लु + क्तः ।)
झम्पगतियुक्ते, त्रि ॥ (यथा, हरिवंशे । ९८ । ८४ । “रामादनन्तरं कृष्णः प्लुतो वै वीर्य्यवांस्ततः । ताभ्यामेव प्लुताभ्याञ्च चरणैस्ताडितो गिरिः ॥” अन्तर्णिजर्थत्वात् प्लावितः । यथा, बृहत्संहिता- याम् । ५ । ४४ । “सव्यगते तमसि जगज्जलप्लुतं भवति मुदित- मभयञ्च ॥” सिक्तः । यथा, याज्ञवल्क्ये । १ । २३५ । “अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ॥” व्याप्तः । यथा, भागवते । ३ । २ । १४ । “यस्यानुरागप्लु तहासरास- लीलावलोकप्रतिलब्धमानाः । व्रजस्त्रियो दृग्भिरनुप्रवृत्त- धियोऽवतस्थुः किल कृत्यशेषाः ॥”)