वाचस्पत्यम्
प्लुष || दाहे दिवा० पर० सक० सेट् । प्लुष्यति ऌदित् अप्लुषत् ।
वाचस्पत्यम्
प्लुष || दाहे भ्वा० पर० सक० सेट् । प्लोषति अप्लोषीत् । पुप्लोष उदित् क्त्वा वेट् । प्लुषित्वा प्लुष्ट्वा ।
वाचस्पत्यम्
प्लुष || सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट् । प्लुष्णाति अप्लोषीत् पुप्लोष ।
शब्दकल्पद्रुमः
प्लुष || उ दहि । भस्मीकरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् । क्त्वावेट् ।)
उ, प्लोषित्वा प्लुष्ट्वा । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
प्लुष || ग सेके । पूर्त्तौ । स्नेहे । इति कविकल्प- द्रुमः ॥ (क्र्या०-पर०-सक०-स्नेहे अक०-सेट् ।)
ग, प्लुष्णाति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
प्लुषः || पुं, दहनम् । इति प्लषधातोर्भावे अल्- प्रत्ययः ॥
शब्दकल्पद्रुमः
प्लुष || य ऌ दहि । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-सेट् ।)
अन्तःस्थतृतीययुक्तः । य, प्लुष्यति । ऌ, अप्लुषत । पुप्लोष । इति दुर्गा- दासः ॥