संस्कृत-शब्दकोशः

प्लुषि प्लुस

प्लुष्ट

वाचस्पत्यम्

प्लुष्ट ||‍ त्रि० प्लुष—क्त । दग्धे अमरः । “द्रोण्यस्त्रविप्लुष्टमिदं मदङ्गम्” भाग०


शब्दकल्पद्रुमः

प्लुष्टः || त्रि (प्लुष् + क्तः । “यस्य विभाषा ।” ७ । २ । १५ । इति इट् न ।)
दग्धः । इत्यमरः । ३ । १ । ९९ ॥ (यथा, ऋतुसंहारे । १ । २२ । “पटुतरवनदाहात् प्लुष्टशष्पप्ररोहाः परुषपवनवेगात् क्षिप्तसंशुष्कपर्णाः ॥” अस्य लक्षणं यथा, —
“तत्र यद्बिवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टम् ॥ चिकित्सास्य यथा, —
“दग्धस्योपशमार्थाय चिकित्सां संप्रचक्षते । प्लुष्टस्याग्निप्रतपनं कार्य्यमुष्णन्तथौषधम् ॥ शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ॥ प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम् ॥ तस्मात् सुखयति ह्यष्णं नतु शीतं कथञ्चन ॥” इति सुश्रुते सूत्रस्थाने द्बादशेऽध्याये ॥)



Correction: