वाचस्पत्यम्
फञ्जी is an alternate of फञ्जि. फञ्जि(ञ्जी) || स्त्री भन्ज—इव पृषो० वा ङीप् । भार्ग्याम् (वामनहाटि) राजनि० ।
शब्दकल्पद्रुमः
फञ्जी || स्त्री (भनक्ति रोगानिति । भञ्ज + अच् । पृषोदरादित्वात् भस्य फः । गौरादित्वात् ङीष् ।)
भार्गी । इति राजनिर्घण्टः ॥ (यथा, वैद्यक- चक्रपाणौ श्वासाधिकारे । “अमृता नागरफञ्जीव्याघ्रीपर्णाससाधितः क्वाथः । पीतः सकणाचूर्णः कासश्वासौ निहन्त्याशु ॥” तथाचास्या गुणाः हारीते प्रथमस्थाने दशमे- ऽध्याये । “वत्सादनी तथा फञ्जी तैलपर्णी तु सिंहिका । चक्रमर्द्दक इत्यन्ये दुर्ज्जरा वातकोपनाः ॥”)