वाचस्पत्यम्
फट् || अव्य० स्फुट—क्विप् पृषो० । १ योगे तन्त्रोक्ते २ अस्त्रनामके मन्त्रभेदे च । ३ अनुकरणशब्दे तस्य नम आदिवद् द्रव्य- विशेषस्य त्यागार्थताऽपि । शान्तिकुम्भक्षालने, अर्घ्यपात्र- क्षालने, अर्घ्यजलेन पूजीपकरणाभ्युक्षणे, अन्तरीक्ष- गविघ्नोत्सारणाय विकिरक्षेपणे, गन्धपुष्पाध्यां करशोधने, अघमर्षणे पापपुरुषताडने, कराङ्गन्यासे, नैवेद्यप्रोक्षणे, होमाग्नेः क्रव्यादांशत्यागे, होमाग्न्यावाहने, तदग्नि- प्रोक्षणादौ च इत्याद्येषु कर्मसु अस्य प्रयोगः नाना- तन्त्रेषु दर्शितः ।
शब्दकल्पद्रुमः
फट् || व्य, अनुकरणशब्दः । अस्त्रबीजम् । यथा । फडस्त्रं शस्त्रमायुधम् । इति बीजवर्णाभिधा- नम् ॥ * ॥
शान्तिकुम्भक्षालने अर्घ्यपात्रक्षालने अर्घ्यजलेन पूजोपकरणाभ्युक्षणे अन्तरीक्षग- विघ्नोत्सारणे विकिरक्षेपणे गन्धपुष्पाभ्यां करशोधने अघमर्षणे पापपुरुषताडने कराङ्ग- न्यासे नैवेद्यप्रोक्षणे होमाग्नेः क्रव्यादांशत्यागे होमाग्न्यावाहने तदग्निप्रोक्षणादौ च फडिति- मन्त्रस्य प्रयोगः ॥ (यथा, भागवते । ६ । ८ । १० । “सविसर्गं फडन्तं तत् सर्व्वदिक्षु विनिर्द्दिशेत् ॥” विशीर्णादौ, त्रि । यथा, वाजसनेयसंहितायाम् । ७ । ३ । “देवां£शो यस्मै त्वेडे तत्सत्यमुपरि प्रुता भङ्गेन हतोऽसौ फट् ॥” “असौ द्वेष्यो हतो निहतः सन् फट् विशीर्णो भवतु ञिफला विशरणे अस्य क्विबन्तस्यैतद्रूपम् । फलतीति फट् डलयोरैक्यम् । स्वाहाकारस्थाने फडित्यभिचारे प्रयुज्यते ।” इति तद्भाष्ये वेद- दीपे महीधरः ॥)