संस्कृत-शब्दकोशः

फणधरधर फणवत्

फणभृत्

शब्दकल्पद्रुमः

फणभृत् || पुं, (फणं बिभर्त्तीति । भृ + क्विप् तुक् च ।)
सर्पः । इति हेमचन्द्रः । ४ । ३६९ ॥ (यथा, राजेन्द्रकर्णपूरे । ४ । “व्याप्तव्योमतले मृगाङ्कधवले निर्धौतदिङ्मण्डले देवत्वद्यशसि प्रशान्ततमसि प्रौढे जगत् प्रेयसि । कैलासन्ति महीभृतः फणभृतः शेषन्ति पाथोधयः क्षीरोदन्ति सुरद्विपन्ति करिणो हंसन्ति पुंस्कोकिलाः ॥”)



Correction: