संस्कृत-शब्दकोशः

फणिजिह्वा फणित

फणिज्झक

वाचस्पत्यम्

फणिज्झक ||‍ पु० फणिनमुज्झति ण्वुल् पृवो० । १ तुलसीभेदे २ जम्बीरसामान्ये च अमरः ।


शब्दकल्पद्रुमः

फणिज्झकः || पुं, (फणिनामुज्झकः बहिष्कारक उत्पादक इति यावत् । पृषोदरादित्वात् साधुः । फणितुल्यबहुपत्रपुष्पवत्त्वात् तथात्वम् ।)
क्षुद्र- पत्रतुलसी ॥ (रक्तवर्णतुलसी च । तत्पर्य्यायश्च यथा, वैद्यकरत्नमालायाम् । “मुगन्धाको गन्धनामा तीक्ष्णगन्धः फणिज्- झकः ॥”)
जम्बीरभेदः । इति केचित् ॥ जम्बीरसामान्यः । इति केचित् ॥ तत्पर्य्यायः । समीरणः २ मरुवकः ३ प्रस्थपुष्पः ४ जम्बीरः ५ । इत्यमरभरतौ ॥ (यथा, —
“मारुतोऽसौ मरुवको मरुन्मरुरपि स्मृतः । फणी फणिज्झकश्चापि प्रस्थपुष्पः समीरणः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: