वाचस्पत्यम्
फणिप्रिय || पु० फणिनां प्राणप्रदत्वात् प्रियः । वायौ शब्दर० सर्पाणां वायुभक्षकत्वेन वायोस्तत्प्रियत्वम् ।
शब्दकल्पद्रुमः
फणिप्रियः || पुं, (फणिनां प्रियः भक्ष्यत्वात् ।) वायुः । इति शब्दरत्नावली ॥