वाचस्पत्यम्
फलक || न० स्वार्थे क । (ढाल) इति ख्याते चर्ममये अस्त्रप्रति- घातनिवारके १ पदार्थे । २ अस्थिखण्डे जटाध० ३ नागकेशरे ४ काष्ठादिपट्टके च मिता० ।
शब्दकल्पद्रुमः
फलकं || क्लो, पुं, (फल + संज्ञायां कन् ।)
चर्म्म । इत्यमरः । २ । ८ । ९० ॥ ढाल इति भाषा ॥ (यथा, विष्णुपादादिकेशान्तवर्णनस्तोत्रे । ३३ । “शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रम् विभ्राणाः शस्त्रजालं मम ददतु हरेर्बाहवो मोहहानिम् ॥”)
शब्दकल्पद्रुमः
फलकः || पुं, (फल + संज्ञायां कन् ।)
अस्थिखण्डम् । इति जटाधरः ॥ नागकेशरम् । इति शब्द- चन्द्रिका ॥ काष्ठादिफलकम् । यथा, —
“पाण्डुलेख्येन फलके भूमौ वा प्रथमं लिखेत् । ऊनाधिकन्तु संशोध्यं पश्चात् पत्रे निवेशयेत् ॥” इति व्यवहारतत्त्वे व्यासः ॥ (यथा, मार्कण्डेये । ८७ । ५ । “भृकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् । काली करालवदना विनिष्क्रान्तासिपाशिनी ॥”)
रजकपट्टम् । धोपार पाट इति भाषा । यथा, “शाल्मले फलके श्लक्ष्णे निज्याद्बासांसि नेजकः । न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥” इति मिताक्षरा ॥