संस्कृत-शब्दकोशः

फलकाम फलकीवन

फलकिन्

वाचस्पत्यम्

फलकिन् ||‍ पु० फलकं तदाकारोऽस्त्यस्य इनि । (फलुइ) १ मत्स्यभेदे २ फलकान्विते त्रि० मेदि० । फला झञ्जिरिष्ट- वृक्ष एव स्वार्थे क । फलका ततः चतुरर्थ्यां प्रेक्षा० इनि । ३ तद्वृक्षसमीपादौ त्रि० स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

फलकी || [न्] पुं, (फलकं फलकाकारोऽस्त्यस्येति । फलक + इनिः ।)
मत्स्यभेदः । फलुइ इति भाषा । (गुणादिकमस्य फलिशब्दे ज्ञात- व्यम् ।)
फलकान्विते, त्रि । इति मेदिनी । ने, १९ ॥



Correction: