संस्कृत-शब्दकोशः

फलग्राहिन् फलचमस

फलघृत

वाचस्पत्यम्

फलघृत ||‍ न० फलजनकं घृतम् शा० त० । शुक्रादिवृद्धिकारके चक्रदत्तोक्ते धृतभेदे “मञ्चिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला । मेदा पयस्या काकोली मूलञ्चैवाश्वगन्ध- जम् । अजमोदा हरिद्रे द्वे हिङ्गकं कटुरोहिणी । उत्पलं कुमुदं द्राक्षाकाकोल्यौ चन्दनद्वयम् । एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेदे । शतावरीरसक्षीरं घृताद्देयं चतुर्गुणम् । सर्पिरेतन्नरः पीत्वा नित्यं स्त्रीषु वृषायते । पुत्रान् जनयते नारी मेधाढ्यान् प्रियदर्श- मान् । या चैवास्थिरगर्भा स्यात् या वा जनयते मृतम् । अल्पायुषं वा जनयेत् या च कन्यां प्रसूयते । योनि- दोषे रजोदोषे परिस्रावे च शस्यते । प्रजावर्द्धनसायुष्यं सर्वग्रहनिवारणम् । नाम्ना फलघृतं ह्येतत् अश्विभ्यां परिकीर्त्तितम् । अनुक्तलक्षणे मूलं क्षिपन्त्यत्र चिकित्- सकाः । जीवद्वत्सैकवर्णाया घृतमत्र प्रशस्यते । आरण्य- गोमयेनापि वह्निज्वाला प्रदीयते” ।



Correction: