संस्कृत-शब्दकोशः

फलत्रिक फलपञ्चाम्ल

फलद

वाचस्पत्यम्

फलद ||‍ पु० फलं ददाति दा—क । १ वृक्षमात्रे २ फलदातरि त्रि० ।


शब्दकल्पद्रुमः

फलदः || त्रि (फलं ददातीति । दा + कः ।)
फल- दाता । यथा, —
“विशिष्टफलदा कन्या निष्कामाणां विमुक्तिदा ॥” इति मलमासतत्त्वधृतविष्णुपुराणवचनम् ॥


शब्दकल्पद्रुमः

फलदः || पुं, (फलं ददातीति । दा + “आतोऽनुप- सर्गे ।” ३ । २ । ३ । इति कः ।)
वृक्षः । इति धरणिः ॥



Correction: