वाचस्पत्यम्
फलवर्तुल || पु० फलं वर्तुलं यस्य । १ कालिङ्गेवृक्षे । २ तत्फले न० राजनि० ।
शब्दकल्पद्रुमः
फलवर्त्तुलं || क्ली (फलं वर्त्तुलमस्य ।) कालिङ्गम् । इति राजनिर्घण्टः ॥