वाचस्पत्यम्
फलस्थापन || न० फलयोरौडम्बरफलयोः स्थापनमत्र । सीमन्तोन्नयनसंस्कारे “फलस्थापनात् मातापितृजं पा- पुमानमपोहति” हारीतः “फलस्थापनात् फलस्थाप- नाङ्गकसीमन्तोन्नयनात्” सं० त० रघु० । तत्र पश्चात् पति- रवस्थाय युगमन्तमौडुम्बरं शलाटु ग्रन्थमावध्नाति” गोभि- लेन औडुम्बरफलयुगस्थापनस्य विधानात् तथात्वम् ।